Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
३३४
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं
उरग - गिरि- जलण - सागर-नहतल-तरुगणसमो य जो होइ । भमर-मिग-धरणि- जलरुह-रवि-पवणसमो य सो समणो ॥ १३१ ॥ तो समणो जइ सुमणो, भावेण य जड़ ण होड़ पावमणो । सयणे य जणे य समो, समो य माणा -ऽवमाणे ||१३२||
१२८ उरगः
तं नोआगमतो भावसामाइए। सेतं भावसामाइए। सेतं सामाइए। सेतं नामनिप्फण्णे । ( सू० ६०० ) से किं तं सुत्तालावगनिप्फण्णे ? सुत्तालावगनिष्फण्णे इदाणिं उर गाहा, स श्रमणो भवतीति सर्वत्र सम्बध्यते, य: कथम्भूतो भवति ? इत्याहसर्पस्तत्समः परकृताश्रयनिवासादिति । एवं समशब्दोऽपि सर्वत्र योज्यते । तथा गिरिसम: परीषहोपसर्गनिष्प्रकम्पत्वात् । ज्वलनसमः तपस्तेजोमयत्वात् । सागरसमो गुणरत्नपरिपूर्णत्वाद् ज्ञानादिगुणैरगाधत्वाद्वा । नभस्तलसम: निरालम्बनत्वात् । तरुगणसम: सुख-दुःखयोरदर्शितविकारत्वात् । भ्रमरसमोऽनियतवृत्तित्वात् । मृगसमः संसारं प्रति नित्योद्विनत्वात् । धरणिसमः सर्वंसहत्वात् । जलरुहसमः निष्पङ्कत्वात्, पङ्क-जलस्थानीयकाम-भोगोपरिवृत्तेरित्यर्थः रविसमः तमोविघातकत्वात् । पवनसमश्च सर्वत्राप्रतिबद्धत्वात् । स एवम्भूतः श्रमणो भवतीति गाथार्थ: ।
यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति- तो समो गाहा, व्याख्या- तत: श्रमणो यदि द्रव्यमनः प्रतीत्य सुमनाः, भावेन च भावमनश्चाश्रित्य यदि न भवति पापमना: । सुमनस्त्वचिह्नान्येव श्रमणगुणत्वेन दर्शयति- स्वजने च पुत्रादिके जने च सामान्ये समः निर्विशेष:, माना- ऽपमानयोश्च सम इति गाथार्थः ।
इह च ज्ञान-क्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञान-क्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वात्, एवं च सति सामायिकवत: साधोरपीह आगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिक-तद्वतोरभेदोपचारादिति भावः । नामनिष्पन्नो निक्षेपः समाप्तः ।
अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह से किं तं सुत्तालावयेत्यादि । अथ कोऽयं सूत्रालापक निष्पन्नो निक्षेप: ?, 'करोमि भदन्त ! सामायिकम्' इत्यादीनां सूत्रालापकानां नाम
१२८. उरगः सर्पस्तत्समः, परकृताश्रयनिवासादितीति । यद्वा सर्पसमत्वं श्रमणस्यान्यथा भाव्यते । तद्यथा-सर्पस्य बिलाद् बहिर्गोमूत्राकारतुल्या वक्रा गतिर्यद्यपि भवति, तथापि बिले तु ऋजुरेव सा भवति, एवं श्रमणोऽपि मुखे प्रक्षेपानन्तरं कवलं रसास्वादनार्थं मुखदक्षिणवामपार्श्वयोर्न भ्रामयति, अपि तु ऋजुरेव गलकाधो नयति । अतः सर्पसमत्वं श्रमणस्य स्पष्टमेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372