Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 353
________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० ६०३) से किं तं निक्खेवनिज्जुत्तिअणुगमे ? निक्खेवनिज्जुत्तिअणुगमे अणुगए । ( सू० ६०४ ) से किं तं उवघायनिज्जुत्तिअणुगमे ? उवघायनिज्जुत्तिअणुगमे इमाहिं दोहिं गाहाहिं अणुगंतव्वे । जहा उसे १ निसे य २ निग्गमे ३ खेत्त ४ काल ५ पुरिसे य ६ । कारण ७ पच्चय ८ लक्खण ९ णये १० समोयारणा ११ ऽणुमए १२ ।। १३३ ।। तद्रूपस्तस्या वा अनुगम: उपोद्घातनिर्युक्त्यनुगम:, तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका, साचा निर्युक्तिश्च सूत्रस्पर्शकनिर्युक्तिः । तत्र निक्षेपनिर्युक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति - अत्रैव प्रागावश्यक-सामायिकादिपदानां नाम - स्थापनादिनिक्षेपद्वारेण यद्व्याख्यानं कृतं तेन निक्षेपनिर्युक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेप प्रस्तावे पुनर्वक्ष्यते च । उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामनुगन्तव्य:, तद्यथा - उद्देसे गाहा, किं कइविहं गाहा, व्याख्या- उद्देशनमुद्देशः सामान्याभिधानरूपो यथा अध्ययनमिति वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो विशेषाभिधानं यथा सामायिकमिति । अत्राह - ननु सामान्यविशेषाभिधानद्वयं निक्षेपद्वारे प्रोक्तमेव तत् किमितीह पुनरुच्यते ? नैतदेवम्, यतोऽत्र सिद्धस्यैव तस्य तत्र निक्षेपमात्राभिधानं कृतमित्यदोषः । तथा निर्गमनं निर्गम: कुत: सामायिकं निर्गतमित्येवंरूपो वक्तव्य:, तथा क्षेत्र - कालौ च ययोः सामायिकमुत्पन्नं तौ वक्तव्यौ । यद्वक्ष्यत्यावश्यकेवइसाहसुद्धएक्कारसीऍ पुव्वण्हदेसकालंमि । महसेणवणुज्जाणे अणंतर परंपरं सेसं ||१|| ( आवश्यकनि०७३४) ति I तथा कुतः पुरुषात् तन्निर्गतमिति वक्तव्यम्, तथा केन कारणेन गौतमादयः सामायिकं भगवतः समीपे शृण्वन्तीत्येवंरूपं कारणं वाच्यम्, यदभिधास्यति - गोय (म) माई सामाइयं तु किंकारणं निसामिंती (आवश्यकनि०७४५) त्यादि, तथा प्रत्यायतीति प्रत्यय: केन प्रत्ययेन भगवतेदमुपदिष्टम् ? केन वा प्रत्ययेन गणधरास्तेनोपदिष्टं तच् छृण्वन्ति, इत्येतद्वक्तव्यमित्यर्थः, तथा च वक्ष्यति - ३३६ केवलनाणि त्ति अहं अरहा सामाइयं परिकहे । तेसिं पि पच्चओ खलु सव्वन्नू तो निसामिति ||१|| ( आवश्यकनि०७५० ) त्ति । तथा सम्यक्त्वसामायिकस्य तत्त्वश्रद्धानं लक्षणम्, श्रुतसामायिकस्य जीवादिपरिज्ञानम्, चारित्रसामायिकस्य सावद्यविरति:, देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रं लक्षणम्, निर्देक्ष्यति च - सद्दहण जाणणा खलु विरई मीसं च लक्खणं कहए (आवश्यक नि०७५३) इत्यादि । एवं नैगमादयो नया वाच्या: । तेषां च नयानां समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372