Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
३५२
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति- अभयशेखरसूरिविरचितटिप्पणीसमेतं
तामप्यन्तरेण तदसिद्धेरित्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिनाऽपि यद् यत्समन्तरभावि तत् तत्कारणमित्यादिप्रयोगे यस्तदनन्तरभावित्वलक्षणो हेतुरुक्तः सोऽप्यसिद्धोऽनैकान्तिकश्च तथाहिस्त्री-भक्ष्य-भोगादिक्रियाकालेऽपि ज्ञानमस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगाद्, एवं शैलेश्यवस्थायां सर्वसंवररूपक्रियाकालेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः, तस्मात् केवलक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसिद्धेरसिद्धो हेतु:, यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकरणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा ज्ञानकारणत्वमपि तदप्यन्तरेण तस्य कदाचिदप्यभावादित्यनैकान्तिकताऽप्यस्येति, तस्माद् ज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धि:, उक्तं चहयं नाणं कियाहीणं हया अन्नाणओ किया ।
पासंतो पंगुलो दड्ढो धावमाणो य अंधओ || १ || संयोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ ।
धोय पंगू व समेच्चा ते संपउत्ता नयरं पविडा || २ ||
( आवश्यकनि० १०१-१०२ ) इत्यादि ।
अत्राह- नन्वेवं ज्ञान-क्रिययोर्मुक्त्यवापिका शक्ति: प्रत्येकमसती समुदायेऽपि कथं स्यात् ? न हि यद् येषु प्रत्येकं नास्ति तत् तेषु समुदितेष्वपि भवति, यथा प्रत्येकमसत् समुदितेष्वपि सिकताकणेषु तैलम्, प्रत्येकमसती च ज्ञान- -क्रिययोर्मुक्त्यवापिका शक्ति:, उक्तं च
पत्तेयमभावाओ निव्वाणं समुदियासु विन जुत्तं ।
नाण-किरियासु वोत्तुं सिकतासमुदायतेल्लं व ॥१॥ (विशेषावश्यकभा० ११६३ ) उच्यते - स्यादेतद् यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारिताऽभिधीयेत, यदा तु तयोः प्रत्येकं देशोपकारिता समुदाये तु सम्पूर्णा हेतुता तदा न कश्चिद्दोष:, आह च
वसुं न सव्वहच्चिय सिकतातेल्लं व साहणाभावो ।
देसोवगारिया जा सा समवायमि संपूण्णा || १ || ( विशेषावश्यकभा० ११६४ )
अतः स्थितमिदं ज्ञान-क्रिये समुदिते एव मुक्तिकारणम्, न प्रत्येकमिति तत्त्वम् । तथा च पूज्या:
नाणाहीणं सव्वं नाणनओ भाइ किं व किरियाए ? |
किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥ | १ | | ( विशेषावश्यकभा० ३५९१) तस्माद्भावसाधुः सर्वैरपि नयैरिष्यत एव स च ज्ञान- क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत् सर्वनयविशुद्धं यच्चरण- - गुणव्यवस्थितः साधुरिति । तदेवं समर्थितं नयद्वारम्, तत्समर्थने च समर्थितानि चत्वार्यप्युपक्रमादीनि द्वाराणि, तत्समर्थने चानुयोगद्वारशास्त्रं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 367 368 369 370 371 372