Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 368
________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] नाणं सविसयनिययं न नाणमित्तेण कज्जनिष्पत्ती | मग्गण्णू दिट्टंतो होइ सचिट्टो अचिट्टो य || २ || (आवश्यकनि० ११५७) जाणंतोऽवि य तरिउं काइयजोगं न जुंजई जो उ । सो वुज्झइ सोएणं एवं नाणी चरणहीणो ||३|| ( आवश्यकनि० ११६० ) जहा खरो चंदणभारवाही (आवश्यकनि० १००) त्यादि तथा अन्यैरप्युक्तम् क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्री-भक्ष्यभोगज्ञो न ज्ञानात् सुखितो भवेद् || १ || ( ) इति । एवं तावत् क्षायोपशमिकी चरणक्रियामङ्गीकृत्य प्राधान्यमुक्तम्, अथ क्षायिकीमप्याश्रित्य तस्या एव प्राधान्यमवसेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावद् मुक्त्यवाप्तिः संपद्यते यावदखिलकर्मेन्धनानलज्वालाकलापरूपायां शैलेश्यवस्थायां सर्वसंवररूपा चारित्रक्रिया न प्राप्तेति, तस्माद् क्रियैव प्रधानं सर्वपुरुषार्थसिद्धिकारणम्, प्रयोगश्चात्र- यद् यत्समनन्तरभावि तत् तत्कारणम्, यथा अन्त्यावस्थाप्राप्तपृथिव्यादिसामग्र्यनन्तरभावी तत्कारणोऽङ्कुरः, क्रियाऽनन्तरभाविनी च सकलपुरुषार्थसिद्धिरिति । ततश्चैष चतुर्विधे सामायिके देशविरति - सर्वविरतिसामायिके एव मन्यते, क्रियारूपत्वेन प्रधानमुक्तिकारणत्वात्, सम्यक्त्व - श्रुतसामायिके तु तदुपकारित्वमात्रतो गौणत्वान्नेच्छतीति गाथार्थः । ३५१ ननु पक्षद्वयेऽपि युक्तिदर्शनात् किमिह तत्त्वमिति न जानीम इति शिष्यजनसम्मोहमाशङ्कय ज्ञानक्रियानयमतप्रदर्शनानन्तरं स्थितपक्षं दर्शयन्नाह - सव्वेसिंपि गाहा, व्याख्या - न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्य- विशेषवादिनां नाम - स्थापनादिवादिनां वा नयानां वक्तव्यतां परस्परविरोधिनीं प्रोक्तिं निशम्य श्रुत्वा तदिह सर्वनयविशुद्धं सर्वनयसम्मतं तत्त्वरूपतया ग्राह्यम्, यत् किमित्याह - यच्चरणगुणस्थितः साधुः, चरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम्, तयोस्तिष्ठतीति चरण-गुणस्थः, ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुः मुक्तिसाधको न पुनरेकेन केनचिदिति भावः । तथाहि यत्तावज्ज्ञानवादिना प्रोक्तं यद्येन विना न भवति तत्तन्निबन्धनमेवेत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः क्वाप्यदर्शनात्, न हि दाह - पाकाद्यर्थिनां दहनपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-सन्धुक्षण-ज्वालनादिक्रियानुष्ठानादपि न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि तस्मात् सर्वत्र ज्ञान - क्रियाऽविनाभाविन्येव पुरुषार्थसिद्धिः, ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धेर्ज्ञाननिबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372