Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 362
________________ श्री अनुयोगद्वारसूत्रम् [सू०६०६ ] वत्थूओ संकमणं होइ अवत्थं गये समभिरूढे ६ । - तदुभयं एवंभूओ विसेसेइ ७ ।। १३९ || वंजण-अत्थ पच्चुप्पन्न गाहा, साम्प्रतमुत्पन्नं प्रत्युत्पन्नमुच्यते, वर्तमानकालभावीत्यर्थः, तद् ग्रहीतुं शीलमस्येति प्रत्युत्पन्नग्राही ऋजुसूत्रो नयविधिर्मुणितव्यः, तत्रातीतानागताभ्युपगमकुटिलतापरिहारेण ऋजु अकुटिलं वर्तमानकालभावि वस्तु सूत्रयतीति ऋजुसूत्र:, अतीतानागतयोर्विनाशानुत्पत्तिभ्यामसत्त्वाद् असदभ्युपगमश्च कुटिल इति भावः, अथवा ऋजु अवक्रं श्रुतमस्येति ऋजुश्रुतः, शेषज्ञानैर्मुख्यतया तथाविधपरोपकारासाधनात् श्रुतज्ञानमेवैकमिच्छतीत्यर्थः, उक्तं च सुनाय उन्नं केवले तयणंतरं । अप्पणो य परेसिं च जम्हा तं परिभावगं ॥१॥ ( ३४५ ) ति, अयं च नयो वर्तमानमपीच्छन् स्वकीयमेवेच्छति परकीयस्य स्वाभिमतकार्यासाधकत्वेन वस्तुतोऽसत्त्वादिति, अपरं च - भिन्नलिङ्गैर्भिन्नवचनैश्च शब्दैरेकमपि वस्त्वभिधीयत इति प्रतिजानीते, यथा तट: तटी तटमित्यादि, तथा गुरुर्गुरव इत्यादि, तथा इन्द्रादेर्नाम स्थापनादिभेदान् प्रतिपद्यते, वक्ष्यमाणनयस्त्वतिविशुद्धत्वाल्लिङ्ग-वचनभेदाद्वस्तुभेदं प्रतिपत्स्यते नाम - स्थापना - द्रव्याणि च नाभ्युपगमिष्यतीति भावः इत्युक्त ऋजुसूत्रः । अथ शब्द उच्यते, तत्र शप आक्रोशे ( पा०धा० १०६९, १२४४), शप्यते अभिधीयते वस्त्वनेनेति शब्दः, तमेव गुणीभूतार्थं मुख्यतया यो मन्यते स नयोऽप्युपचाराच्छब्दः, अयं च प्रत्युत्पन्नं वर्तमानं तदपि ऋजुसूत्राभ्युपगमापेक्षया विशेषिततरमिच्छति, तथाहि - तटस्तटी तटमित्यादिशब्दानां भिन्नान्येवाभिधेयानि, भिन्नलिङ्गवृत्तित्वात्, स्त्री-पुरुष नपुंसकशब्दवदित्यसौ प्रतिपद्यते, तथा गुरुर्गुरव इत्यत्राप्यभिधेयभेद एव, भिन्नवचनवृत्तित्वात् पुरुषः पुरुषा इत्यादिवदिति, नाम-स्थापना-द्रव्यरूपाश्च नेन्द्राः, तत्कार्याकरणात्, १३३ खपुष्पवदिति, प्राक्तनाद्विशुद्धत्वाद्विशेषिततरोऽस्याभ्युपगमः, समानलिङ्ग-वचनानां तु बहूनामपि शब्दानामेकमभिधेयमसौ मन्यते यथेन्द्रः शक्रः पुरन्दर इत्यादि, इति गाथार्थः । वत्थूओ इत्यादि, वस्तुन: इन्द्रादे: सङ्क्रमणमन्यत्र शक्रादाविति दृश्यम्, भवति अवस्तु असंभवीत्यर्थः, क्वेत्याह- नये समभिरूढे, समभिरूढनयमतेनेत्यर्थः, तत्र वाचकभेदेनापरापरान् १३३. खपुष्पवदिति । क्वचित् कदाचित् केनचिद् घटादेरपि 'इन्द्र' इति नाम कृतं स्यात्तदा घटादेरपि नामेन्द्रतया पक्षान्तर्गतत्वेन दृष्टान्तत्वासम्भवाद् घटादिकं प्रसिद्धं सन्तं दृष्टान्तं विहायासतः खपुष्पस्यात्र दृष्टान्ततयोपादानं कृतमिति ध्येयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372