Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
३३८
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं
किं १३ कइविहं १४ कस्स १५ कहिं १६ केसु १७ कहं १८ किच्चिरं हवइ कालं १९ । कइ २० संतर २१ मविरहितं २२ भवा २३ऽऽगरिस २४ फासण २५ निरुत्ती २६ ॥१३४॥ सेतं उवघातनिज्जुत्तिअणुगमे । अविरहितं निरन्तरं कियन्तं कालं सामायिकप्रतिपत्तारो लभ्यन्त इत्यत्रावेदयिष्यतिसम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ । अट्ट समया चरित्ते सव्वेसु जहण्ण दो समया ।।१।।
(आवश्यकनि०८५४) इत्यादि । कियतो भवान् उत्कृष्टतस्तदवाप्यत इत्यत्र प्रतिवचनं दास्यतिसम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ । अट्ट भवा उ चरित्ते अणंतकालं च सुयसमए ॥१॥ (आवश्यकनि०८५६) त्ति ।
आकर्षणमाकर्ष: एकस्मिन्नानाभवेषु वा पुन: पुन: सामायिकस्य ग्रहणानि प्रतिपत्तय इति वाच्यम्, तच्च वक्ष्यति -
तिण्ह सहस्सपुहत्तं सयपुहत्तं च होइ विरईए । एगभवे आगरिसा एवइया होति नायव्वा ।।१।। तिण्ह सहस्समसंखा सहसपुहत्तं च होइ विरईए । नाणभवे आगरिसा एवइया हुंति नायव्वा ।।२।।
(आवश्यकनि०८५७,८५८) इति । फासण त्ति कियत् क्षेत्रं सामायिकवन्तः स्पृशन्तीत्यभिधानीयम्, तच्चैवम्सम्मत्तचरणसहिया सव्वं लोगं फुसे निरवसेसं । सत्त य चउदसभाए पंच य सुयदेसविरईए ॥१।। (आवश्यक नि०८५९) इत्यादि। निश्चिता उक्तिर्निरुक्तिर्वक्तव्या, तत्र चसम्मद्दिट्टि अमोहो सोही सब्भाव दंसणं बोही । अविवज्जओ सुदिट्टि त्ति एवमाई निरुत्ताई ।।१।।
(आवश्यकनि०८६१) इत्यादि वक्ष्यति। एवं तावद्गाथाद्वयसंक्षेपार्थः । विस्तरार्थस्त्वावश्यकनियुक्ति-टीकाभ्यामवसेय इति । तुल्या न कापि विराधना वर्तते, हिंसा-वासनाद्यपेक्षयाऽप्याशातना पापतरे'ति । ततश्चेदमपि निश्चीयते यद् 'उपास्यतत्त्वानामुपासनया तुल्या न काप्याराधना भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372