Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 354
________________ श्रीअनुयोगद्वारसूत्रम् [सू०६०४] ३३७ यतो निवेदयिष्यति मूढनइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो ॥११॥ (आवश्यकनि०७६२) इत्यादि। तथा कस्य व्यवहारादेः किं सामायिकमनुमतमित्यभिधानीयम्, भणिष्यति चतवसंजमो अणुमओ निगथं पवयणं च ववहारो । सदुज्जुसुयाणं पुण निव्वाणं संजमो चेव ॥१॥ (आवश्यकनि०७८९) त्ति । किं सामायिकमित्यत्र प्रत्युत्तरयिष्यति- जीवो गुणपडिवण्णो णयस्स दव्वट्टियस्स सामइय (आवश्यक नि०७९२) मित्यादि। कतिविधं तदित्यत्र निर्वचनयिष्यति- सामाइयं च तिविहं संमत्त सुयं तहा चरित्तं चे (आवश्यकनि० ७९६) त्यादि । कस्य सामायिकमित्यत्राभिधास्यति- जस्स सामाणिओ अप्पा (आवश्यकनि० ७९७) इत्यादि । क्व सामायिकमित्येतदपि खेत्तदिसकालगइभवियसण्णिउस्सासदिट्ठिमाहारे (आवश्यकनि०८०४) इत्यादिना द्वारकलापेन निरूपयिष्यति । केषु सामायिकमित्यत्रोत्तरं सर्वद्रव्येषु, तथाहि सव्वगयं सम्मत्तं सुए चरित्ते न पज्जवा सव्वे । देसविरइं पडुच्चा दुण्हवि पडिसेहणं कुज्जा ।।१।। (आवश्यकनि०८३०) इति दर्शयिष्यति । कथं सामायिकमवाप्यत इत्यत्र माणुस्स खेत्त जाई कुलरूवारोग्ग आउयं बुद्धी (आवश्यकनि०८३१) त्यादि प्रतिपादयिष्यति । कियच्चिरं कालं तद्भवतीति चिन्तायामभिधास्यति - सम्मत्तस्स सुयस्स य छावट्टि सागरोवमाइं ठिती। सेसाण पुव्वकोडी देसूणा होइ उक्कोसा ।।१।। (आवश्यकनि०८४९) इति । कइ त्ति कियन्त: सामायिकस्य युगपत् प्रतिपद्यमानका: पूर्वप्रतिपन्ना वा लभ्यन्ते इति वक्तव्यम्, भणिष्यति च सम्मत्त-देसविरया पलियस्स असंखभागमेत्ता उ (आवश्यकनि०८५०) इत्यादि । सहान्तरेण वर्तत इति सान्तरमिति विचारणायां निर्णेष्यतिकालमणंत च सुए अद्धापरियट्टओ य देसूणो । १३०आसायणबहुलाणं उक्कोसं अंतरं होइ ॥१॥ (आवश्यकनि०८५३) त्ति । १३०. आसायणबहुलाणं ति । अत्र 'हिंसादिबहुलानां' यद्वा 'वासनादिबहुलानां' इति नोक्तं, अपि ‘त्वाशातनाबहुलानां' इति यदुक्तं तेन ज्ञायते यद् ‘उपास्यतत्त्वानामाशातनया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372