Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
श्री अनुयोगद्वारसूत्रम् [सू०५९९]
(सू० ५९९) से किं तं नोआगमतो भावसामाइए ? भावसामाइएजस्स सामाणिओ अप्पा संजमे णियमे तवे ।
तस्स सामाइयं होइ, इइ केवलिभासियं ॥१२७॥ जो समोसव्वभूएस तसेसुं थावरेसु य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥ १२८ ॥
हम ण पि दुक्खं जाणिय एमेव सव्वजीवाणं । न हाइ न हणावेइ य सममणती तेण सो समणो || १२९ ।।
णत्थि य से कोई वेसो पिओ व सव्वेसु चेव जीवेसु । एएण होइ समणो, एसो अन्नो वि पज्जाओ || १३०||
अथ नामनिष्पन्नं निक्षेपमाह से किं तं नामनिप्पन्ने इत्यादि । इहाध्ययना - क्षीणाद्यपेक्षया सामायिकमिति वैशेषिकं नाम, इदं चोपलक्षणं चतुर्विंशतिस्तवादीनाम् । अस्यापि पूर्वोक्तशब्दार्थस्य सामायिकस्य नाम-स्थापना - द्रव्य - १ - भावभेदाच्चतुर्विधो निक्षेप: । अत एवाह से समासओ चउव्विहे इत्यादि, सूत्रसिद्धमेव, यावत् जस्स सामाणिओ अप्पा इत्यादि, यस्य सत्त्वस्य सामानिक: सन्निहित आत्मा सर्वकालं व्यापारात्, क्व ? संयमे मूलगुणरूपे नियमे उत्तरगुणसमूहात्म अनशनादौ तस्येत्थम्भूतस्य सामायिकं भवतीत्येतत् केवलिभाषितमिति श्लोकार्थः ।
३३३
जो समो इत्यादि, यः समः सर्वत्र मैत्रीभावात् तुल्यः सर्वभूतेषु सर्वजीवेषु त्रसेषु स्थावरेषु च तस्य सामायिकं भवतीत्येतदपि केवलिभाषितम्, जीवेषु च समत्वं संयमसान्निध्यप्रतिपादनात् पूर्वश्लोकेऽपि लभ्यते, किन्तु जीवदयामूलत्वाद् धर्मस्य तत्प्राधान्यख्यापनाय पृथगुपादानमिति । य एव हि सर्वभूतेषु समोऽत एव साधुः समणो भण्यत इति दर्शयन्नाह - जह मम गाहा, व्याख्यायथा मम स्वात्मनि हननादिजनितं दुःखं न प्रियम् एवमेव सर्वजीवानां तन्नाभीष्टमिति ज्ञात्वा चेतसि भावयित्वा समस्तानपि जीवान्न हन्ति स्वयम्, नाप्यन्यैर्घातयति, चशब्दाद् घ्नतश्चान्यान् न समनुजानीत इत्यनेन प्रकारेण सममणति सर्वजीवेषु तुल्यं वर्तते यतस्तेनासौ समण इति गाथार्थः ।
तदेवं सर्वजीवेषु समत्वेन सममणतीति समण इत्येक: पर्यायो दर्शितः, एवं समं मनोऽस्येति समना इत्यन्योऽपि पर्यायो भवत्येवेति दर्शयन्नाह - नत्थि य से गाहा, व्याख्या - नास्ति च से तस्य कश्चिद् द्वेष्यः प्रियो वा, सर्वेष्वपि जीवेषु सममनस्त्वात्, अनेन भवति समं मनोऽस्येति निरुक्तिविधिना समना इत्येषोऽन्योऽपि पर्याय इति गाथार्थः ।
तदेवं पूर्वोक्तप्रकारेण सामायिकवतः साधोः स्वरूपं निरूप्य प्रकारान्तरेणाऽपि तन्निरूपणार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372