Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 306
________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७३,४७४] २८९ य केवलिए य । सेतं चरित्तगुणप्पमाणे । सेतं जीवगुणप्पमाणे । सेतं गुणप्पमाणे । (सू० ४७३) से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पण्णत्ते। तंजहा-पत्थयदिटुंतेणं वसहिदिटुंतेणं पएसदिटुंतेणं । (सू० ४७४) से किं तं पत्थगदिटुंतेणं ? पत्थगदिलुतेणं से जहानामए केइ पुरिसे परसुं गहाय अडविहत्ते गच्छेजा, तं च केइ पासित्ता वदेजा-कत्थ भवं गच्छसि ? चैतच्चारित्रं छेदोपस्थापनचरणवतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेन । तदेवमिह यो यस्तप: कृत्वा अनुपरिहारिकतां कल्पस्थिततां वाऽङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्विष्टकायिकमुच्यते, ये तु तप: कुर्वन्ति तत्सम्बन्धि निर्विश्यमानकमिति स्थितम् । संपरैति पर्यटति संसारमनेनेति सम्पराय: क्रोधादिकषाय:, लोभांशमात्रावशेषतया सूक्ष्म: सम्परायो यत्र तत् सूक्ष्मसम्परायम् । इदमपि सक्लिश्यमान-विशुद्ध्यमानकभेदाद् द्विधैव । तत्र श्रेणिमारोहतो विशुद्ध्यमानकमुच्यते, तत: प्रच्यवमानस्य सक्लिश्यमानकमिति । अहक्खाय त्ति अथशब्दोऽत्र याथातथ्ये, आङभिविधौ, आ समन्ताद्याथातथ्येन ख्यातमथाख्यातम्, कषायोदयाभावतो निरतिचारत्वात् पारमार्थिकरूपेण ख्यातमथाख्यातमित्यर्थः । एतदपि प्रतिपात्यप्रतिपातिभेदाद् द्वेधा । तत्रोपशान्तमोहस्य प्रतिपाति क्षीणमोहस्य त्वप्रतिपाति, अथवा केवलिनश्छद्मस्थस्य चोपशान्तमोह-क्षीणमोहस्य तद् भवति, अतः स्वामिभेदाद् द्वैविध्यमिति । तदेतच्चारित्रगुणप्रमाणम्, तदेतज्जीवगुणप्रमाणम्, तदेतद् गुणप्रमाणमिति। ___ तदेवं जीवाजीवभेदभिन्नं गुणप्रमाणं प्रतिपाद्य क्रमप्राप्तं नयप्रमाणं प्रतिपादयन्नाह - से किं तं नयप्पमाणे इत्यादि । अनन्तधर्मणो वस्तुन एकांशेन नयनं नयः, स एव प्रमाणं नयप्रमाणम्, त्रिविधं प्रज्ञप्तमिति, यद्यपि नैगम-सङ्ग्रहादिभेदतो बहवो नयास्तथापि प्रस्थकादिदृष्टान्तत्रयेण सर्वेषामिह निरूपयितुमिष्टत्वात् त्रैविध्यमुच्यते, तथा चाह- तद्यथा- प्रस्थकदृष्टान्तेनेत्यादि, प्रस्थकादिदृष्टान्तत्रयेण हेतुभूतेन त्रिविधं नयप्रमाणं भवतीत्यर्थः । तत्र प्रस्थकदृष्टान्तं दर्शयति- तद्यथानामकः कश्चित् पुरुष: परशुंकुठारं गृहीत्वा अटवीमुखो गच्छेदित्यादि । इदमुक्तं भवति- प्रस्थको मागधदेशप्रसिद्धो धान्यमानविशेषः, तद्धेतुभूतकाष्ठकर्तनाय कुठारव्यग्रहस्तं तक्षादिपुरुषमटवीं गच्छन्तं दृष्ट्वा कश्चिदन्यो वदेत् क्व भवान् गच्छति ? ११८ तत्राऽविशुद्धनैगमो भणति, अविशुद्धनैगमनयमतानुसारी सन्नसौ प्रत्युत्तरयतीत्यर्थः । किमित्याह__११८. तत्राविशुद्धनैगमो भणतीत्यादि । नन्वत्र नैगमे शुद्धाशुद्धत्वं किम् ? प्रश्नेऽत्रायमाशयःयस्य नयस्य या स्वकीया दृष्टिः, तदन्यनयदृष्टेरंशतोऽपि संमिश्रणं यथा न स्यात्तथा तयैव केवलया यद्दर्शनं तत्र तस्य नयस्य विशुद्धतमत्वं व्यवह्रियते । तथा यथा यथा तदन्यनयदृष्टेरंशाः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372