Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 313
________________ २९६ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं भणति - पाडलिपुत्ते वसामि । पाडलिपुत्ते अणेगाई गिहाई, तेसु सव्वेसु भवं वससि ? विसुद्धतराओ गमो भणति - देवदत्तस्स घरे वसामि । देवदत्तस्स घरे अणेगा कोट्ठगा, सु सव्वे भवं वससि ? विसुद्धतराओ णेगमो भणति - गब्भघरे वसामि । एवं विसुद्ध स गमस्स वसमाणो वसति । एवमेव ववहारस्स वि । संगहस्स संथारसमारूढो वसति । उज्जुसुयस्स जेसु आगासपएसेसु ओगाढो तेसु वसइ । तिन्हं सहनयाणं आयभावे वस । सेतं वसहिदिट्टंतेणं । ( सू० ४७६ ) से किं तं पदेसदिट्ठतेणं ? पदेसदिट्टंतेणं णेगमो भणति छण्हं पदेसो, तंजा - धम्मपदेसो अधम्मपदेसो आगासपदेसो जीवपदेसो खंधपदेसो देसपदेसो | एवं वयं गमं संगहो भाइ जं भणसि छण्हं पदेसो तण्ण भवइ, कम्हा ? जम्हा जो सो देसपदेसो सो तस्सेव दव्वस्स, जहा को दिट्ठतो ?, दासेण खरो कीओ दासो यद्याद्यः पक्षस्तर्हि तस्याधारव्यतिरेकिणा स्वकीयरूपेणाप्रतिभासनप्रसङ्गः, यथा हि संस्तारकाद्याधारस्य स्वरूपं सर्वात्मना तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यते एवं देवदत्तादिरपि सर्वात्मना तत्राधीयमानस्तद्व्यतिरेकेण नोपलभ्यते ( भ्येत ) । अथ द्वितीयो विकल्प: स्वीक्रियते तर्हि तत्रापि देशे अनेन वर्त्तितव्यम्, ततः पुनरपि विकल्पद्वयम् - किं सर्वात्मना वर्तते देशात्मना वेति ? सर्वात्मपक्षे देशिनो देशरूपताऽऽपत्तिः, देशात्मपक्षे तु पुनस्तत्रापि देशे देशिना वर्तितव्यम् । ततः पुनरपि तदेव विकल्पद्वयम्, तदेव च दूषणमित्यनवस्था । तस्मात् सर्वोऽपि स्वस्वभाव एव निवसति, तत्परित्यागेनान्यत्र निवासे तस्य नि:स्वभावताप्रसङ्गादित्यलं बहुभाषितया । सेत्तमित्यादि निगमनम् । से किं तं पएसदिट्टंतेणमित्यादि । प्रकृष्टो देश: प्रदेशः, निर्विभागो भाग इत्यर्थः, स एव दृष्टान्तः, तेन नयमतानि चिन्त्यन्ते तत्र नैगमो भणति षण्णां प्रदेश:, तद्यथा - धम्मपदेसो इत्यादि, धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य प्रदेशो धर्मप्रदेश: एवमधर्मा-ऽऽकाशजीवास्तिकायेष्वपि योज्यम् । स्कन्ध: पुद्गलद्रव्यनिचयः, तस्य प्रदेश: स्कन्धप्रदेश: । देश : एषामेव पञ्चानां धर्मास्तिकायादिद्रव्याणां प्रदेशद्वयादिनिर्वृत्तोऽवयवः, तस्य प्रदेशो देशप्रदेश: । अयं च I तत्र वृत्तं न तद्व्यतिरेकेणोपलभ्यत एवं देवदत्तादिरप्यभेदसम्बन्धेन तत्राऽऽधीयमानस्तदव्यतिरेकेण नोपलभ्येत । अथ द्वितीयो विकल्पः स्वीक्रियते तर्हि अनवस्थादोषापत्तिः । सा चैवंभेदसम्बन्धस्तत्र वर्तमानः किमभेदसम्बन्धेन वर्तते भेदसम्बन्धेन वा ? यद्याद्यः पक्षस्तर्हि आधेयभूतेनान्येन किमपराद्धं येन स तत्राभेदसम्बन्धेन न वर्तेतेति नाद्यः पक्षः । अथ द्वितीयः पक्षस्तर्हि तस्यापि तत्र भेदसम्बन्धस्याभ्युपगन्तव्यत्वादनवस्थापत्तिः स्पष्टैव । तस्मात्सर्वोऽपि नान्यत्र निवसति, अपि तु स्वस्वभाव एव निवसति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372