Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 338
________________ श्रीअनुयोगद्वारसूत्रम् [सू०५२६,५२९] ३२१ (सू० ५२६) से किं तं अत्थाहिगारे ? अत्थाहिगारे- जो जस्स अज्झयणस्स अत्थाहिगारो । तंजहा सावज्जजोगविरती १ उक्तित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१२३।। सेतं अत्थाहिगारे। (सू० ५२७) से किं तं समोयारे ? समोयारे छव्विहे पण्णत्ते । तं०-णामसमोयारे ठवणसमोयारे दव्वसमोयारे खेत्तसमोयारे कालसमोयारे भावसमोयारे । (सू० ५२८) से किं तं णामसमोयारे ? नाम-ठवणाओ पुव्ववणियाओ । (सू० ५२९) से किं तं दव्वसमोयारे ? दव्वसमोयारे दुविहे पण्णत्ते। तं०-आगमतो य णोआगमतो य । जाव सेत्तं भवियसरीरदव्वसमोयारे। यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमिति कृत्वा नास्ति परसमयवक्तव्यतेति वर्तते । एवं साङ्ख्यादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति । तस्मात् सर्वा स्वसमयवक्तव्यतैव, लोके प्रसिद्धानपि परसमयान् स्यात्पदलाञ्छननिरपेक्षतया दुर्णयत्वादसत्त्वेनैते नया: प्रतिपद्यन्त इति भाव: । स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव । प्रोक्तं च महामतिना नयास्तव स्यात्पदलाञ्छना इमे रसोपदिग्धा इव लोहधातवः । भवन्त्यभिप्रेतगुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥१।। (बृहत्स्वयम्भू०) इत्यादि, सेयं वक्तव्यतेति निगमनम् । वक्तव्यता समाप्ता ।। साम्प्रतमर्थाधिकारावसर:- तत्र यो यस्य सामायिकाद्यध्ययनस्याऽऽत्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः, तच्च सावज्जजोगविरतीत्यादिगाथावसरे प्रागेव कृतमिति न पुन: प्रतन्यत . इति । वक्तव्यता-ऽर्थाधिकारयोस्त्वयं भेद:- अर्थाधिकारोऽध्ययने आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति। __ अथ समवतारं निरूपयितुमाह- से किं तं समोयारे इत्यादि। समवतरणं- वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनं समवतार: । स च नामादिभेदात् षोढा । तत्र नाम-स्थापने सुचर्चिते । एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूह्य वक्तव्य:, यावद् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविध: प्रज्ञप्त:, तद्यथा- आत्मसमवतार इत्यादि । तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे स्वकीयस्वरूपे समवतरन्ति वर्तन्ते, तदव्यतिरिक्तत्वात्तेषाम्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे बदराणीति, निश्चयत: सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भाव:, तदुभयसमवतारेण तदुभये वस्तूनि वर्तन्ते, यथा कट-कुड्य-देहली-पट्टादिसमुदायात्मके Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372