Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 342
________________ ३२५ श्रीअनुयोगद्वारसूत्रम् [सू०५३४-५३५] कोहे माणे माया लोभे रागे य मोहणिजे य । पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥१२४।। सेतं भावसमोयारे । सेतं समोयारे । सेतं उवक्कमे । ॥ उपक्रम इति प्रथमं द्वारमतिक्रान्तम् ।। (सू० ५३४) से किं तं निक्खेवे ? निक्खेवे तिविहे पण्णत्ते । तंजहा-ओहनिप्फण्णे य नामनिप्फण्णे य सुत्तालावगनिप्फण्णे य । (सू० ५३५) से किं तं ओहनिप्फण्णे ? ओहनिप्फण्णे चउव्विहे पण्णत्ते । तंजहाअज्झयणे अज्झीणे आए झवणा ।। महामतिनाऽप्युक्तम्- मूढनयं तु न संपइ नयप्पमाणेऽवयारो से (विशेषावश्यकभा० ९४९) त्ति । गुणप्रमाणमपि जीवाऽजीवगुणभेदतो द्विधा प्रोक्तम्, तत्रास्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणे समवतारः, तस्मिन्नपि ज्ञान-दर्शन-चारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणेऽवतार:, तत्रापि प्रत्यक्षा-ऽनुमानोपमाना-ऽऽगमभेदाच्चतुर्विधे प्रकृताध्ययनस्याऽऽप्तोपदेशरूपतया आगमेऽन्तर्भावः, तस्मिन्नपि लौकिक-लोकोत्तरभेदभिन्ने परमगुरुप्रणीतत्वेन लोकोत्तरिके आत्मागमाऽनन्तरागम-परम्परागमभेदतस्त्रिविधेऽप्यस्य समवतार: । सङ्ख्याप्रमाणेऽपि नामादिभेदभिन्ने प्रागुक्तपरिमाणसङ्ख्यायामस्यावतार: । वक्तव्यतायामपि स्वसमयवक्तव्यतायामिदमवतरति, यत्रापि परोभयसमयवर्णनं क्रियते तत्रापि निश्चयत: स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वे स्वसमयत्वात्, सम्यग्दृष्टिर्हि परसमयमपि विषयविभागेन योजयति न त्वेकान्तपक्षनिक्षेपेणेत्यत: सर्वोऽपि तत्परिगृहीत: स्वसमय एव, अत एव परमार्थत: सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः । तदुक्तम् परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं । तो सव्वऽज्झयणाई ससमयवत्तव्वनिययाइं ॥१।। (विशेषावश्यकभा० ९५३) एवं चतुर्विंशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्त: समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् । अथ निक्षेपद्वारं निरूपयितुमाह- से किं तं निक्खेवे इत्यादि। निक्षेप: पूर्वोक्तशब्दार्थ: त्रिविध: प्रज्ञप्त:, तद्यथा- ओघनिष्पन्न इत्यादि। तत्रौघ: सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्न: ओघनिष्पन्न:, नाम श्रुतस्यैव सामायिकादिकं विशेषाभिधानं तेन निष्पन्नो नामनिष्पन्न:, सूत्रालापका:- करेमि भंते ! सामायियमित्यादिकास्तैर्निष्पन्न: सूत्रालापकनिष्पन्न: । एतदेव भेदत्रयं विवरीषुराह- से किं तं ओहनिप्फण्णे इत्यादि, ओघनिष्पन्नश्चतुर्विध: प्रज्ञप्त:, तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372