Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
३२०
आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं मिच्छादसणमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमयवत्तव्वया, णत्थि ससमयपरसमयवत्तव्वया । सेतं वत्तव्वया ।
जो चिंतई सरीरे नत्थि अहं स इव(इध) होइ जीवो त्ति । न हु जीवम्मि असंते संसयउप्पायओ अण्णो ॥१।। ( ) इत्याद्यन्यदप्यभ्यूह्यम् ।
अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः, यथा नास्त्येवाऽऽत्मा अत्यन्तानुपलब्धे:, हेत्वाभासश्चायम्, ज्ञानादेस्तद्गुणस्योपलब्धेः । उक्तं च
नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता । जह रूवाइगुणाणं उवलंभाओ घडाईणं ।।१।। ( इत्यादि प्रागेवोक्तमिति ।
असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वात्, एकान्तक्षणभङ्गादेश्चासद्भूतत्वं युक्तिविरोधात्, तथाहि
धम्मा-ऽधम्मुवएसो कया-ऽकयं परभवाऽऽय-गमणं च । सव्वा वि ह लोयठिई न घडइ एगंतखणियम्मी ॥१॥
__) त्यादि । अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायां च क्रियावतोऽभावेन क्रियाया असम्भवात् । उक्तं च
सव्वं सुन्नं ति जयं पडिवन्नं जेहि ते वि वत्तव्वा । सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई ॥१॥ ( ) त्यादि । उन्मार्गत्वं परस्परविरोध(धात्) स्थाण्वाद्याकुलत्वात् । तथाहिन हिंस्यात् सर्वभूतानि, त्रसानि स्थावराणि च । आत्मवत् सर्वभूतानि, य: पश्यति स धार्मिकः ॥१।। ( इत्याद्यभिधाय पुनरपि - षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभि: ।।१।। ( ) इत्यादि प्रतिपादयन्तीति । अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्, तदुक्तम्सर्वं क्षणिकमित्येतद् ज्ञात्वा को न प्रवर्तते ? । विषयादौ विपाको मे न भावीति विनिश्चयात् ॥१।। ( ) इत्यादि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372