Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 335
________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५२१) से किं तं वत्तव्वया ? वत्तव्वया तिविहा पण्णत्ता । तं०- ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया । ( सू० ५२२ ) से किं तं ससमयवत्तव्वया ? ससमयवत्तव्वया - जत्थ णं ससमए आघविज्जति पणविज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिज्जति । सेतं ३१८ ससमयवत्तव्वया । (सू०५२३) से किं तं परसमयवत्तव्वया ? परसमयवत्तव्वया जत्थ णं परसमए आघविज्जति जाव उवदंसिज्जति । सेतं परसमयवत्तव्वया । अथ क्रमप्राप्तं वक्तव्यताद्वारं निरूपयितुमाह से किं तं वत्तव्वया इत्यादि । तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा स्वसमयादिभेदात् । तत्र यस्यां णमिति वाक्यालङ्कारे, स्वसमयः स्वसिद्धान्तः आख्यायते यथा पञ्च अस्तिकायाः, तद्यथाधर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा- स एवासङ्ख्यातप्रदेशात्मकादिस्वरूप:, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निदर्श्यते उपनयद्वारेण यथा- तथैवैषोऽपि जीव- पुद्गलानां गत्युपष्टम्भक इत्यादि, तदेवं दिङ्मात्रप्रदर्शनेन व्याख्यातमिदम्, सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु यस्यां परसमय आख्यायत इत्यादि । यथा सूत्रकृदङ्गप्रथमाध्ययने - संति पंच महभूया, इहमेगेसि आहिया । पुढवी आऊ तेऊ वाऊ आगासपंचमा || १ || एते पंच महभूया, तेभो एगो त्ति आहिया । अह तेसि विणासेणं, विणासो होइ देहिणो ||२|| ( १|१|७ - ८ ) इत्यादि । अस्य च श्लोकद्वयस्य सूत्रकृद्वृत्तिकारलिखित एवायं भावार्थ:- एकेषां नास्तिकानां स्वकीयाप् आहितानि आख्यातानि इह लोके सन्ति विद्यन्ते पञ्च समस्तलोकव्यापकत्वान्महाभूतानि, तान्येवाहपृथिवीत्यादि । पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह- एते पंचेत्यादि, एतानि अनन्तरोक्त पृथिव्यादीनि यानि पञ्च महाभूतानि तेभो त्ति तेभ्य: कायाकारपरिणतेभ्यः एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्तः परलोकयायीत्येवं ते आहिय त्ति आख्यातवन्तः । अथ तेषां भूतानां विनाशेन देहिनः जीवस्य विनाशो भवति, तदव्यतिरिक्तत्वादेवेति । एवं लोकायतमतप्रतिपादनपरत्वात् परसमयवक्तव्यतेयमुच्यते, आख्यायते इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्ध्या कार्य: । सेयं परसमयवक्तव्यता । स्वसमय-परसमयवक्तव्यता पुनर्यत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372