Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 334
________________ श्रीअनुयोगद्वारसूत्रम् [सू०५१८-५२०] ३१७ (सू० ५१८) उक्कोसयं जुत्ताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्ताणतयं होइ, अहवा जहण्णयं अणंताणतयं रूवूणं उक्कोसयं जुत्ताणतयं होइ। (सू० ५१९) जहण्णयं अणंताणतयं केत्तियं होति ? जहण्णएणं जुत्ताणतएणं अभवसिद्धिया गुणिया अण्णमण्णब्भासो पडिपुण्णो जहणणयं अणंताणतयं होइ, अहवा उक्कोसए जुत्ताणंतए रूवं पक्खित्तं जहण्णयं अणंताणतयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाई। सेतं गणणासंखा ।। (सू० ५२०) से किं तं भावसंखा ? भावसंखा- जे इमे जीवा संखगइनाम-गोत्ताई कम्माई वेदेति । सेतं भावसंखा। सेतं संखप्पमाणे। सेतं भावप्पमाणे। सेतं पमाणे। पमाणे त्ति पयं सम्मत्तं ॥ ६, एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारात्रयं पूर्ववद्वयेते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञान-केवलदर्शनपर्याया: प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात्, अत: परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादिति भावः । सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्ट न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति । सूत्रे च यत्र क्वचित् अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । तदेवं प्ररूपितमनन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या । अथ भावसङ्ख्यानिरूपणार्थमाह- से किं तं भावसंखा इत्यादि, इह संख्या(खा)शब्देन प्रागुक्तयुक्त्या शङ्खा: परिगृह्यन्ते, अत एव नाम-स्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणं गुणप्रमाणात् पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वात् गुणप्रमाण एवान्तर्भावः स्यादिति । तत्र भावशङ्खस्वरूपं दर्शयितुमाह- जे इमे इत्यादि, ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवा: आयु:प्राणादिमन्त: संखगतिनामगोयाई ति शङ्खगतिनामशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्द्रियजात्यौदारिकशरीराङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणं गोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एते भावशङ्खा: प्रोच्यन्ते । तदेवं समाप्तं सङ्ख्याप्रमाणम्, अतो निगमयति- सेत्तं संखप्पमाणे त्ति । तत्समाप्तौ चावसितं भावप्रमाणमित्याह- सेत्तं भावप्पमाणे त्ति । एतदवसाने च नि:शेषितं प्रमाणद्वारमित्युपसंहरति- सेत्तं पमाणे त्ति । प्रमाणद्वारं समाप्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372