Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 325
________________ ३०८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं उक्कोसए अहण्णमणुक्कोसए । ___(सू० ४९९) से किं तं असंखेजए ? असंखेजए तिविहे पण्णत्ते। तंजहापरित्तासंखेजए जुत्तासंखेजए असंखेजासंखेजए । एकं वस्तु प्रायो न कश्चिद् गणयत्यतोऽ१२६संव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद् द्विप्रभृतिरेव गणनसङ्ख्या । सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा- सङ्खयेकमसङ्खयेयकमनन्तकम् । तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्येयकं १२६. असंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरतीति । यद्वैकत्वस्यासङ्ख्यात्वेऽयमपि द्वित्वादिसङ्ख्याविलक्षणत्वलक्षणो हेतु यः । द्वित्वादयो ये सङ्ख्यापरिणामा लोकप्रसिद्धास्तेभ्य एकत्वपरिणामस्यानेकधा वैलक्षण्यं यतो वर्ततेऽतो नैकत्वस्य सङ्ख्यापरिणामत्वमिति । तच्चानेकधा वैलक्ष्ण्यमेवं प्रकारं ज्ञेयं• घटगतद्वित्वादयः सङ्ख्या अन्यघटादिरूपं पदार्थान्तरमपेक्षते, न त्वेकत्वपरिणामः । द्वित्वादयः सङ्ख्या अपेक्षाबुद्धिजन्या भवन्ति, अपेक्षाबुद्धिनाशे च नश्यन्ति, एकत्वपरिणामस्तु न तथा, स्वाश्रयभूतघटादेर्या कारणसामग्री तयैव जन्यत्वात्, घटकालं यावदवस्थाय घटनाश एव नश्यमानत्वाच्च । द्वित्वादयः सङ्ख्यापरिणामा यदपेक्षाबुद्धिजन्यास्तत्पुरुषप्रत्यक्षविषया एव भवन्ति, न सर्वेषां प्रत्यक्षविषयाः, एकत्वपरिणामस्तु सर्वेषां प्रत्यक्षविषयः । • 'इमौ द्वौ' इति यदैकस्य द्वित्वप्रत्यक्षं भवति, तदैवान्यस्य 'न द्वौ, अपि तु त्रय इमे' इत्यादिरूपेण द्वित्वाभावप्रत्यक्षमपि सम्भवति, न तथैकत्वस्य सम्भवः, एकत्वस्य सर्वदा भावात्, द्वित्वाद्यर्थमपि 'अयमेकः' 'अयमेकः' इत्यपेक्षाबुद्धेरपेक्षणाच्च ।। एवञ्च द्वित्वादिसङ्ख्यापरिणामाद् एकत्वपरिणामस्य यतोऽनेकविधं वैलक्षण्यमतो नैकत्वस्य सङ्ख्यात्वमिति । ननु पूर्वं ‘से किं तं गणिमे ? गणिमे जण्णं गणिज्जति। तं जहा- एक्को दसणं सतं...' इत्यादिसूत्रे (सू.क्र.३२६) 'गणिमं सङ्ख्याप्रमाणमेकादि' इति हारिभद्रीयवृत्तौ ‘गण्यते सङ्ख्यायते वस्त्वनेनेति गणिममेकादि' इति हेमचन्द्रसूरिरचितवृत्ती चैकत्वस्य सङ्ख्यात्वमुक्तमेवेति चेत् ? सत्यं, विवक्षितस्य राशेर्यथा द्वित्रादिभि_नाधिक्यं सम्भवति तथैवैकेनापि सम्भवति, द्वित्रादीनां यथा २, ३ इत्याद्यङ्कस्थापना क्रियते तथैवैकस्यापि १ इत्यङ्कस्थापना क्रियत एव, दशगुणिता द्वित्रादयो यथा विंशतिस्त्रिंशदित्यादि रूपेण दशगुणाः संजायन्ते तथैव दशगुणित एककोऽपि दशरूपेण दशगुणः संजायत एव, तस्मादेकस्य द्वित्रादिभ्यः सत्यपि पूर्वोक्ते वैलक्षण्येऽनेकधा सादृश्यमपि सम्भवत्येव । अतस्तत्सूत्र एकस्यापि सङ्ख्याप्रमाणत्वमुक्तमित्यस्माकं प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372