Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
श्रीअनुयोगद्वारसूत्रम् [सू०५११,५१२]
३१३ (सू० ५११) जहन्नयं जुत्तासंखेजयं केत्तियं होति ? जहन्नयं परित्तासंखेजयं जहण्णयपरित्तासंखेज्जयमेत्ताणं रासीणं अण्णमण्णब्भासो पडिपुण्णो जहन्नयं जुत्तासंखेज्जयं हवति, अहवा उक्कोसए परित्तासंखेजए रूवं पक्खित्तं जहण्णयं जुत्तासंखेजयं होति, आवलिया वि तत्तिया चेव, तेणं परं अजहण्णमणुक्कोसयाई ठाणाइं जाव उक्कोसयं जुत्तासंखेजयं ण पावइ ।
(सू० ५१२) उक्कोसयं जुत्तासंखेजयं केत्तियं होति ? जहण्णएणं जुत्तासंखेजएणं आवलिया गुणिया अण्णमण्णब्भासो रूवूणो उक्कोसयं जुत्तासंखेजयं होइ, अहवा जहन्नयं असंखेज्जासंखेजयं रूवूणं उक्कोसयं जुत्तासंखेजयं होति । रूपेणोन उत्कृष्टं परीतासङ्ख्येयकं भवति । इदमत्र हृदयम्- प्रत्येकं जघन्यपरीतासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्त: पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्ट परीतासङ्ख्येयकं मन्तव्यम् । अत्र सुखप्रतिपत्त्यर्थमुदाहरणं दर्श्यतेजघन्यपरीतासङ्ख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, तत: पञ्चैव वारा: पञ्च पञ्च व्यवस्थाप्यन्ते, तद्यथा ५५५५५, अत्र पञ्चभिः पञ्च गुणिता: पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंशं शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मान: सद्भावतस्त्वसङ्ख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासङ्ख्येयकं संपद्यते, यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह- अहवा जहण्णयं जुत्तासंखेजयमित्यादि । अनन्तरोक्ताद्धि युक्तासंख्येयकादेकस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पद्यते इति प्रतीयते एवेति ।
उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासङ्ख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासङ्ख्येयकस्य निरूपणार्थमाह- जहण्णयं जुत्तासंखेज्जयं कित्तियमित्यादि । अत्रोत्तरं जहण्णयं परित्तासंखेज्जयमित्यादि, व्याख्या पूर्ववदेव, नवरम् अन्नमन्नब्भासो पडिपुन्नो त्ति अन्योन्याभ्यस्त: परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः (ग्र० ५०००)। अहवा उक्कोसए परित्तासंखेज्जए इत्यादि भावितार्थमेव । आवलिया वि तत्तिया चेव त्ति, यावन्ति जघन्ययुक्तासङ्ख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्त: समया भवन्तीत्यर्थः, तत्र सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासङ्ख्येयकतुल्यसमयराशिमानाऽसौ द्रष्टव्या। तेण परमित्यादि, ततो जघन्ययुक्तासङ्ख्येयकात् परत: एकोत्तरया वृद्ध्या असङ्खयेयान्यजघन्योत्कृष्टानि युक्तासङ्ख्येयकस्थानानि भवन्ति यावदुत्कृष्टं युक्तासङ्ख्येयकं न प्राप्नोति । अत्र शिष्य: पृच्छतिउक्कोसयं जुत्तासंखेज्जयमित्यादि । अत्र प्रतिवचनम्- जहण्णएणमित्यादि, जघन्येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372