Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 331
________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ५१३) जहण्णयं असंखेज्जासंखेज्जयं केत्तियं होइ ? जहन्नएणं जुत्तासंखेज्जएणं आवलिया गुणिया अण्णमण्णभासो पडिपुण्णो जहण्णयं असंखेज्जासंखेज्जयं होइ, अहवा उक्कोसए जुत्तासंखेज्जए रूवं पक्खित्तं जहण्णयं असंखेज्जासंखेज्जयं होति, तेण युक्तासङ्ख्येयकेनावलिकासमयराशिर्गुण्यते, किमुक्तं भवति ? अन्योन्यमभ्यासः क्रियते, जघन्ययुक्तासङ्ख्येयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स ए रूपेणोनः उत्कृष्टं युक्तासङ्ख्येयकं भवति । यदि पुनस्तदपि रूपं गण्यते तदा जघन्यमसङ्ख्ये - यासङ्ख्येयकं जायते, अत एवाह- अहवा जहण्णयं असंखेज्जासंखेज्जयं रूवूणमित्यादि गतार्थम् । ३१४ उक्तं युक्तासङ्ख्येयकं त्रिविधम्, इदानीमसङ्ख्येयासङ्ख्येयकं त्रिविधं बिभणिषुराह - जहण्णयं असंखेज्जासंखेज्जयं कित्तियमित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णो त्ति परिपूर्णः, रूपं न पात्यत इत्यर्थः । अहवेत्याद्यपि गतार्थम् । तेण परमित्यादि, ततः परमसङ्ख्येयासङ्ख्येयकस्य असङ्ख्येयान्यजघन्योत्कृष्टस्थानानि भवन्ति यावदुत्कृष्टमसङ्ख्येयासङ्ख्येयकं न प्राप्नोति । अत्र विनेयः प्रश्नयति- उक्कोसयं असंखेज्जासंखेज्जयं केत्तियमित्यादि । अत्रोत्तरम् - जहण्णयं असंखेज्जासंखेज्जयमित्यादि, जघन्यमसङ्ख्येयासंख्येयकं यावद् भवतीति शेषः, तावत्प्रमाण जघन्यासंख्येयासंख्येयकमात्राणां जघन्यासंख्येयासंख्येकरूपसङ्ख्यानामित्यर्थः, राशीना - मन्योन्यमभ्यास: परस्परं गुणनास्वरूपः एकेन रूपेणोन: उत्कृष्टमसङ्ख्येयासङ्ख्येयकं भवति । अयमत्र भावार्थः- प्रत्येकं जघन्यासङ्ख्येयासङ्ख्येयकरूपा जघन्यासङ्ख्येयासङ्ख्यक एव रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति स एकेन रूपेण हीनः उत्कृष्टमसङ्ख्येयासङ्ख्येयकं प्रतिपत्तव्यम्, उदाहरणं चात्राप्युत्कृष्टपरीतासङ्ख्येयकोक्तानुसारेण वाच्यम्, अत्र च यदेकं रूपं पातितं तदपि यदि गण्यते तदा जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशति - अहवा जहणणयं परित्ताणंतयमित्यादि गतार्थमेव इत्येकीयाचार्यमतं तावद्दर्शितम् । अन्ये त्वाचार्या उत्कृष्टमसङ्ख्येयासमयेयकमन्यथा प्ररूपयन्ति, तथाहि - जघन्यासङ्ख्येयासङ्ख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः पुनरपि वर्गो निष्पाद्यते, एवं च वारात्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसङ्घयेयस्वरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, तद्यथा लोगागासपएसा १ धम्मा - ऽधम्मेगजीवदेसा य २-३-४ । दव्वट्टिया निओया ५ पत्तेया चेव बोद्धव्वा ६ || १ || Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372