Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust
View full book text
________________
३१२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पक्खित्ते से माते, अण्णे वि पक्खित्ते से वि माते, अन्ने वि पक्खित्ते से वि माते, एवं पक्खिप्पमाणे पक्खिप्पमाण होही से आमलए जम्मि पक्खित्ते से मंचए भरिजिहिइ जे वि तत्थ आमलए न माहिति ।
(सू० ५०९) एवामेव उक्कोसए संखेजए रूवं पक्खित्तं जहण्णयं परित्तासंखेजयं भवति, तेण परं अजहण्णमणुक्कोसयाइं ठाणाइं जाव उक्कोसयं परित्तासंखेजयं ण पावइ।
(सू० ५१०) उक्कोसयं परित्तासंखेजयं केत्तियं होति ? जहण्णयं परित्तासंखेजयं जहण्णयपरित्तासंखेजयमेत्ताणं रासीणं अण्णमण्णब्भासो रूवूणो उक्कोसयं परित्तासंखेजयं होति, अहवा जहन्नयं जुत्तासंखेज्जयं रूवणं उक्कोसयं परित्तासंखेजयं होइ । उत्क्षिप्य तथैव प्रक्षिप्यते, प्रतिशलाकापल्ये च प्रतिशलाका प्रक्षिप्यते, ततोऽनवस्थितपल्य उत्क्षिप्य तथैव प्रक्षिप्यते, शलाकापल्ये च शलाका प्रक्षिप्यते, एवमनवस्थितपल्योत्क्षेप-प्रक्षेपक्रमेण शलाकापल्यो भरणीय:, शलाकापल्योद्धरण-विकिरणविधिना प्रतिशलाकापल्य: पूरणीय:, प्रतिशलाका-पल्योत्पाटन-प्रक्षेपणाभ्यां महाशलाकापल्य: पूरयितव्यः, यदा तु चत्वारोऽपि परिपूर्णा भवन्ति तदोत्कृष्टं सङ्ख्येयकं रूपाधिकं भवति । इह यथोक्तेषु चतुर्षु पल्येषु ये सर्षपा ये चानवस्थितपल्य-शलाकापल्य-प्रतिशलाकापल्योत्क्षेप-प्रक्षेपक्रमेण द्वीप-समुद्रा व्याप्तास्तावत्सङ्ख्यमुत्कृष्ट सङ्खयेयकमेकेन सर्षपरूपेण समधिकं संपद्यत इति भाव: । एतावद्भिश्च सर्षपैरसंलप्या लोका: शलाकापल्यलक्षणा भ्रियन्त एवेति सूत्रमविरोधेन भावनीयम् । इदं च तावदुत्कृष्टं सङ्ख्येयकम्, जघन्यं तु द्वौ, जघन्योत्कृष्टयोश्चान्तराले यानि सङ्ख्यास्थानानि तत् सर्वमजघन्योत्कृष्टम् । आगमे च यत्र क्वचिदविशेषितं सङ्ख्येयकग्रहणं करोति तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम् । इदं चोत्कृष्टं सङ्ख्येयकमित्थमेव प्ररूपयितुं शक्यते, शीर्षप्रहेलिकान्तराशिभ्योऽतिबहुना समतिक्रान्तत्वात् प्रकारान्तरेणाख्यातुमशक्यत्वादिति । उक्तं त्रिविधं सङ्ख्येयकम् ।
अथ नवविधमसङ्खयेयकं प्रागुद्दिष्टं निरूपयितुमाह- एवामेव उक्कोसए संखेजए रूवमित्यादि। असङ्ख्येयकेऽपि निरूप्यमाणे एवमेवानवस्थितपल्यादिप्ररूपणा क्रियत इत्यर्थः, तावद् यावदुत्कृष्टं सङ्ख्येयकमानीतम्, तस्मिंश्च यदेकं रूपं पूर्वमधिकं दर्शितं तद् यदा तत्रैव राशौ प्रक्षिप्यते तदा जघन्यं परीतासङ्ख्येयकं भवति । तेण परमित्यादि सूत्रम्, ततः परं परीतासङ्ख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति यावदुत्कृष्टं परीतासङ्ख्येयकं न प्राप्नोति । शिष्य: पृच्छति- कियत् पुनरुत्कृष्टं परीतासङ्ख्येयकं भवति ? अत्रोत्तरम्- जहण्णयं परित्तासंखेज्जयं इत्यादि, जघन्यं परीतासङ्ख्येयकं यावत्प्रमाणं भवतीति शेष:, तावत्प्रमाणानां जघन्यपरीतासङ्ख्येयकमात्राणां जघन्यपरीतासङ्ख्येयकगतरूपसङ्ख्यानामित्यर्थः, राशीनामन्योन्यमभ्यास: परस्परं गुणनास्वरूप एकेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372