Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 327
________________ ३१० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं जोयणसयसहस्साइं सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते । से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति, एगे दीवे एगे समुद्दे एगे दीवे एगे समुद्दे एवं पक्खिप्पमाणेहिं पक्खिप्पमाणेहिं जावइया णं दीव-समुद्दा तेहिं सिद्धत्थएहिं अप्फुण्णा एस णं एवतिए खेत्ते पल्ले आइटे। से णं पल्ले सिद्धत्थयाणं भरिए । ततो णं तेहिं सिद्धत्थएहिं दीव-समुद्दाणं उद्धारे घेप्पति परिही तिलक्ख सोलस सहस्स दो य सय सत्तवीसऽहिया । कोसतिय अट्टवीसं धणुसय तेरंगुलऽद्धहियं ।।१।। (बृहत्क्षेत्र० ६) इति गाथाप्रतिपादितमानः, जम्बूद्वीपप्रमाण इति भावः । अयं चाधस्ताद्योजनसहस्रमवगाढो द्रष्टव्य:, रत्नप्रभापृथिव्या रत्नकाण्डं भित्त्वा वज्रकाण्डे प्रतिष्ठित इत्यर्थः । स चैवंप्रमाण: पल्यो जम्बूद्वीपवेदिकान्त उपरि सप्रशिख: सिद्धार्थानां सर्षपानां भ्रियते । ततो णं तेहिमित्यादि, इदमुक्तं भवति- ते सर्षपा असत्कल्पनया देवादिना समुत्क्षिप्य एको द्वीपे एक: समुद्रे इत्येवं सर्वेऽपि प्रक्षिप्यन्ते, यत्र च द्वीपे समुद्रे वा ते इत्थं प्रक्षिप्यमाणा निष्ठां यान्ति तत्पर्यवसानो जम्बूद्वीपादिरनवस्थितपल्य: कल्प्यते, अत एवाह- एस णं एवइए खेत्ते पल्ले त्ति, यावन्तो द्वीप-समुद्रास्तै: सर्षपै; अप्फुण्णत्ति व्याप्ता इत्यर्थः, एतदेतावत्प्रमाणं क्षेत्रमनवस्थितपल्य: सर्षपभृतो बुद्ध्या परिकल्प्यत इत्यर्थः, तत: किमित्याह- पढमा सलाग त्ति, तत: शलाकापल्ये प्रथमशलाका एक: सर्षप: प्रक्षिप्यत इत्यर्थः, एवइयाणं सलागाणं असंलप्पा लोगा भरिय त्ति लोक्यन्ते केवलिना दृश्यन्त इति लोकाः, व्याख्यानादिह वक्ष्यमाणशलाकापल्यरूपा गृह्यन्ते, ते चैक-दशशत-सहस्र-लक्ष-कोटिप्रकारेण संलपितुमशक्या असंलप्या:, अतिबहव इत्यर्थः, यथोक्तशलाकानामसत्कल्पनया भृता: पूरितास्तथाप्युत्कृष्टं सङ्ख्येयकं न प्राप्नोति, आकण्ठपूरिता अपि हि लोकरूढ्या भृता उच्यन्ते, न चैतावतैवोत्कृष्टं सङ्ख्येयकं संपद्यते, किन्तु यदा सप्रशिखतया तथा ते भ्रियन्ते यथा नैकोऽपि सर्षपस्तत्रापरो माति तदा तद् भवतीति भावः । ननु सप्रशिखतया सर्वथा अभृतमपि लोके किं भृतमुच्यते ? सत्यम्, प्रोच्यत एव, तथा चात्रार्थे दृष्टान्त दिदर्शयिषुराहयथा को दृष्टान्त: ? इति शिष्येण पृष्टे सत्युत्तरमाह- तद्यथानाम कश्चिन्मञ्च: स्यात्, स चामलकानां भृत इति शिखामन्तरेणापि लोकेन व्यपदिश्यते, अथ च तत्रैकमामलकं प्रक्षिप्तं तन्मातमपरमपि प्रक्षिप्तं तदपि मातमन्यदपि प्रक्षिप्तं तदपि मातमेवमपरापरैः प्रक्षिप्यमाणैः भविष्यति तदामलकं येनासौ मञ्चो भरिष्यते, यच्च तदुत्तरकालं तत्र मञ्चे न मास्यति, इत्थं चात्राप्यपरापरैर्यथोक्तशलाकारूपैः प्रक्षिप्तैर्यदा संलपितुमशक्या अतिबहवः सप्रशिखा: पल्या असत्कल्पनया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372