Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 317
________________ ३०० आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं पदेसे आगासे, जीवे पदेसे से पदेसे णोजीवे, खंधे पदेसे से पदेसे णोखंधे। एवं वयंतं सद्दणयं समभिरूढो भणति-जं भणसि-धम्मे पदेसे से पदेसे धम्मे जाव खंधे पदेसे से पदेसे नोखंधे, तं न भवइ, कम्हा ? एत्थ दो समासा भवंति, तंजहा-तप्पुरिसे य कम्मधारए य, तं ण णजइ कतरेणं समासेणं भणसि ? किं तप्पुरिसेणं किं कम्मधारएणं ?, जड़ तप्पुरिसेणं भणसि तो मा एवं भणाहि, अह कम्मधारएणं भणसि तो विसेसओ भणाहिधम्मे य से पदेसे य से से पदेसे धम्मे, अहम्मे य से पदेसे य से से पदेसे अहम्मे, आगासे य से पदेसे य से से पदेसे आगासे, जीवे य से पदेसे य से से पदेसे नोजीवे, कायैकदेशवृत्तिर्जीवप्रदेशः ? इत्याशङ्क्याह- से पएसे धम्मे त्ति स च प्रदेश: सकलधर्मास्तिकायादव्यतिरिक्तो न पुनस्तदेकदेशवृत्तिरित्यर्थः, शेषभावना पूर्ववत्, (से पएसे नोजीवे)। से पएसे नोखंधे इत्यत्रापि पूर्ववदेवार्थकथनम् । एवं वदन्तं समभिरूढं साम्प्रतमेवंभूतो भणति-यद्यद्धर्मास्तिकायादिकं वस्तु भणसि तत् सर्वं समस्तं कृत्स्नं देश-प्रदेशकल्पनारहितं प्रतिपूर्णम् आत्मस्वरूपेणाविकलं निरवशेष तदेवैकत्वान्निरवयवमेकग्रहणगृहीतम् एकाभिधानाभिधेयं नो नानाभिधानाभिधेयम्, तानि ह्येकस्मिन्नर्थेऽसौ नेच्छति, अभिधानभेदे वस्तुभेदाभ्युपगमात्, तदेवंभूतं तद् धर्मास्तिकायादिकं वस्तु भण, न तु प्रदेशादिरूपतया, यतो देश-प्रदेशौ ममावस्तुभूतौ, १२३अखण्डस्यैव वस्तुनः सत्त्वेनोपगमात्, तथाहि- प्रदेश-प्रदेशिनो/दो वा स्यादभेदो वा ? यदि प्रथम: पक्षस्तर्हि भेदेनोपलब्धिप्रसङ्गः, न च तथोपलब्धिरस्ति । अथाभेदस्तर्हि धर्म-प्रदेशशब्दयोः पर्यायतैव प्राप्ता, एकार्थविषयत्वात्, न च पर्यायशब्दयोर्युगपदुच्चारणं युज्यते, एकेनैव तदर्थप्रतिपादने द्वितीयस्य वैयर्थ्यात्, तस्मादेकाभिधानाभिधेयं परिपूर्णमेकमेव वस्त्विति । तदेवमेते निजनिजार्थसत्यताप्रतिपादनपरा विप्रतिपद्यन्ते नया:, एते च परस्परं निरपेक्षा दुर्नया:, सौगतादिसमयवत्, परस्परसापेक्षास्तु सुनया:, तैश्च परस्परसापेक्षैः समुदितैरेव सम्पूर्ण जिनमतं भवति, नैकैकावस्थायाम् । उक्तं च स्तुतिकारेण उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ दृष्टयः ।। न च तासु भवान् प्रदृश्यते प्रविभक्तासु सरित्स्विवोदधिः ।। (सिद्धसेनद्वा० ४।६) १२३. अखण्डस्यैव वस्तुनः सत्त्वेनोपगमादिति । देशप्रदेशयोरवस्तुभूतत्वसाधनार्थमेवंभूतनयेन दत्तस्यैतस्य हेतोरेतदपि विवरणं शक्यते कर्तुम् । तथाहि- अखण्ड एव घटादिके वस्तुनि यतो जलाहरणाद्यर्थक्रियाकारित्वं वर्ततेऽतस्तस्यैव वस्तुभूतत्वम् । कण्ठमात्ररूपेण पृथुबुध्नादिमात्ररूपेण वा देशेन यतो जलाहरणाद्यर्थक्रिया न शक्यते कर्तुम्, अतोऽर्थक्रियाकारित्वाभावेन देशस्यावस्तुभूतत्वमेव । एवमेव प्रदेशस्याप्यर्थक्रियाकारित्वाभावेनावस्तुभूतत्वं ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372