Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 319
________________ ३०२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४८०) नाम-ठवणाणं को पतिविसेसो ? नामं आवकहियं, ठवणा इत्तिरिया वा होज्जा आवकहिया वा ।। (सू० ४८१) से किं तं दव्वसंखा ? दव्वसंखा दुविहा पं० । तं०- आगमओ य नोआगमतो य । (सू० ४८२) से किं तं आगमओ दव्वसंखा ? आगमओ दव्वसंखा- जस्स णं संखा ति पदं सिक्खितं ठियं जियं मियं परिजियं जाव कंगिण्ह(कंठोट्ठ)विप्पमुक्कं (गुरुवायणोवगयं), से णं तत्थ वायणाए पुच्छणाए परियट्टणाए धम्मकहाए, नो अणुप्पेहाए, कम्हा ? अणुवओगो दव्वमिति कट्ट । (सू० ४८३) (१) (णेगमस्स) एक्को अणुवउत्तो आगमतो एका दव्वसंखा, दो अणुवउत्ता आगमतो दो दव्वसंखाओ, तिन्नि अणुवउत्ता आगमतो तिन्नि दव्वसंखाओ, एवं जावतिया अणुवउत्ता तावतियाओ (णेगमस्स आगमतो) दव्वसंखाओ । (२) एवामेव ववहारस्स वि । (३) संगहस्स एको वा अणेगा वा अणुवउत्तो वा अणुवउत्ता वा (आगमओ) दव्वसंखा वा दव्वसंखाओ वा (सा एगा दव्वसंखा)। (४) उज्जुसुयस्स (एगो अणुवउत्तो) आगमओ एका दव्वसंखा, पुहत्तं णेच्छति । (५) तिण्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू, कम्हा ? जति जाणए अणुवउत्ते ण भवति । सेतं आगमओ दव्वसंखा । इह यो जीवो मृत्वाऽनन्तरभवे शखेषु उत्पत्स्यते स तेष्वबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविक: शङ्ख उच्यते, यत्र भवे वर्तते स एवैको भव: शोषूत्पत्तेरन्तरेऽस्तीति कृत्वा । एवं शङ्खप्रायोग्यं बद्धमायुष्कं येन स बद्धायुष्कः । शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखे जघन्यत: समयेनोत्कृष्टतोऽन्तर्मुहूर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नाम-गोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्र: । तदेष त्रिविधोऽपि भाविभावशङ्खताकारणत्वात् ज्ञशरीर-भव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते । यद्येवं द्विभविक-त्रिभविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत्, नैवम्, तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात्, तत्कारणस्यैव द्रव्यत्वात् । इदानीं त्रिविधमपि शङ्ख कालत: क्रमेण निरूपयन्नाह- एगभविए णं भंते इत्यादि, एकभविक: शङ्खो भदन्त ! एकभविक इति व्यपदेशेन कालत: कियच्चिरं भवतीति । अत्रोत्तरम्जहण्णेणमित्यादि, इदमुक्तं भवति- पृथिव्याद्यन्यतरभवेऽन्तर्मुहूर्तं जीवित्वा योऽनन्तरं श षूत्पद्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372