Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 321
________________ ३०४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४९०) अभिमुहनामगोत्ते णं भंते ! अभिमुहनामगोत्ते त्ति कालतो केवचिरं होति ? जहन्नेणं एकं समयं, उक्कोसेणं अंतोमुहत्तं । (सू० ४९१) इयाणिं को णओ कं संखं इच्छति ?-तत्थ णेगम-संगह-ववहारा तिविहं संखं इच्छंति, तंजहा-एक्कभवियं बद्धाउयं अभिमुहनामगोत्तं च । उजुसुओ दुविहं संखं इच्छति, तंजहा-बद्धाउयं च अभिमुहनामगोत्तं च । तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति। सेतं जाणयसरीर-भवियसरीरवइरित्ता दव्वसंखा । सेतं नोआगमओ दव्वसंखा। सेतं दव्वसंखा। शङ्खमिच्छतीति विचार्यते- तत्र नैगम-सङ्ग्रह-व्यवहारा: स्थूलदृष्टित्वात् त्रिविधमपि शङ्खमिच्छन्ति, दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः, यथा राज्यार्हकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि । ऋजुसूत्र एभ्यो विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद् द्विविधमेवेच्छति । १२५शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेवैकं चरममेवेच्छन्ति । सेत्तमित्यादि निगमनम्। ग्राह्या एवेति, अन्यथा मौलिकस्य द्रव्यशङ्खस्यासम्भवात् सूत्रकृतोक्तस्य तद्व्यतिरिक्तद्रव्यशङ्खभेदस्य शून्यत्वापत्तेः । तस्माद् वृत्तिकृता 'कारणे कार्योपचारं कृत्वेत्थं व्यपदेशप्रवृत्ति रिति यदुक्तं तेनैकभविकबद्धायुष्कयोरेवोपचरितं द्रव्यशङ्खत्वं प्राप्यते, न त्वभिमुखनामगोत्रस्य, तस्य मुख्यद्रव्यशङ्खत्वादिति ध्येयम् । तथा बद्धायुष्कत्वमभिमुखनामगोत्रत्वस्य कारणं भवत्येव, अबद्धायुष्करय शङ्खप्रायोग्यनामगोत्रकर्मणोर्विपाकत उदयाभिमुख्यस्यासम्भवात् । अत ऋजुसूत्रो मुख्यद्रव्यशङखस्याभिमुखनामगोत्रस्य कार्यस्य कारणे बद्धायुष्कत्व उपचारं कृत्वा बद्धायुष्कं द्रव्यशङ्खत्वेन स्वीकरोति, परन्त्वेकभविकं न स्वीकरोति, तस्य तत्कारणत्वाभावेनोपचारासम्भवात् । नैगम-सङ्ग्रह-व्यवहारास्तु दूरवर्तिनोऽपि कारणत्वं रवीकृत्यैकभविकमपि द्रव्यशङ्खत्वेनाभ्युपगच्छन्ति । १२५. शब्दादयस्त्वित्यादि । यद्वा शब्दादीनामयमप्यभिप्रायः शक्यते ग्रहीतुम्-यतः शब्दादय उपचारं न स्वीकुर्वन्ति, अतोऽभिमुखनामगोत्रलक्षणं मुख्यद्रव्यशङ्खमेवेच्छन्ति, न बद्धायुष्काख्यमुपचरितद्रव्यशङ्खमिति । ननु ‘भावं चिय सद्दणया' (वि. आ.भा.२८४७) इति वचनात् 'शब्दनया भावनिक्षेपमेवेच्छन्तीति ज्ञायते, तदत्र कथं 'तिण्णि सद्दणया अभिमुहणामगोत्तं संखं इच्छंति त्ति कथितम् ? अभिमुखनामगोत्रस्य द्रव्यशङ्खत्वादिति चेत् ? सत्यं, तथापि 'सिद्धस्य गतिश्चिन्तनीये'तिन्यायात् सूत्रसिद्धस्यास्य सङ्गतिश्चिन्तनीयैव । सा चैवं प्रतिभातियथा सङ्ग्रहनयस्य सामान्यग्राहित्वेऽपि क्वचिदशुद्धसङ्ग्रहो कञ्चिद्विशेषमप्यभ्युपगच्छति, एवं शुद्धानां शब्दादीनां भावनिक्षेपमात्रग्राहित्वेऽप्यशुद्धानां तेषां क्वचिद् द्रव्यनिक्षेपग्राहित्वमपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372