Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 308
________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७४] २९१ प्रस्थकस्य गच्छामि । इदमुक्तं भवति नैके गमा वस्तुपरिछेदा यस्य अपि तु बहवः स निरुक्तवशात् ककारलोपतो नैगम उच्यते, अतो यद्यप्यत्र प्रस्थककारणभूतकाष्ठनिमित्तमेव गमनम्, न तु प्रस्थकनिमित्तम्, तथाऽप्यनेकप्रकारवस्त्वभ्युपगमपरत्वात् कारणे कार्योपचारात् तथाव्यवहारदर्शनादेवमप्ययावत् सर्वोऽपि मौलिकः प्रस्थक एवेति नैगमाभ्युपगमोऽपि मन्तव्य एव एवमेवानेकप्रकारवस्त्वभ्युपगमपरत्वस्योक्तस्योपपत्तेः । तथैवमेव नैगमस्य व्यवहाराद्विशेषोऽप्युपपद्येत, गमनोद्देश्यभूते काष्ठे प्रस्थकत्वेन प्रस्थकत्वाभ्युपगमस्य नैगमत्वात्, प्रस्थककारणत्वेनोपचरितप्रस्थकत्वाभ्युपगमस्य च व्यवहारत्वात् । ननु सूत्रे तु 'एवमेव ववहारस्स वि' त्त्यतिदेशेन नैगमाद् व्यवहारस्य विशेषाभाव एवोक्त इति चेत् ? न, अभिप्रायापरिज्ञानात् । गमनोद्देश्यभूतं काष्ठं प्रस्थकः, छिद्यमानं काष्ठं प्रस्थकः... इत्येवंक्रमेण निष्पन्नः प्रस्थकोऽपि प्रस्थक इति यथा नैगमस्याभ्युपगमस्तथैव व्यवहारस्यापि तत्सर्वं प्रस्थक इत्यभ्युपगमोऽस्त्येव । एतावतांशेनैव नैगमाद् व्यवहारस्याविशेषोऽतिदेशश्च ज्ञेयः । परंतु 'प्रस्थकोऽयमित्येवं नामाङ्कितो निष्पन्नः प्रस्थक एव प्रस्थकत्वेन निरुपचरितः प्रस्थकः, गमनोद्देश्यभूतकाष्ठादिकं तु प्रस्थककारणत्वेनोपचारादेव प्रस्थक इति व्यवहारनयाभ्युपगमः । गमनोद्देश्यभूतकाष्ठादिकं सर्वं प्रस्थकत्वेन निरुपचरित एव प्रस्थक इति तु नैगमनयाभ्युपगमः । एतावांस्तु तयोर्विशेषोऽभ्युपेय एव, अन्यथाऽनेकप्रकारवस्त्वभ्युपगमपरत्वं नैगमस्य यदुक्तं 'कारणे कार्योपचारात् तथाव्यवहारदर्शनादि 'त्यादि च यदुक्तं तदनुपपत्तेः । किञ्च 'लोकव्यवहारप्राधान्येनायं व्यवहारनयः' इति तु वृत्तिकारैरपि कथितमेव । लोकश्च प्रधानतया निष्पन्नं प्रस्थकमेव प्रस्थकतया व्यवहरति । गमनोद्देश्यभूतकाष्ठादिकं तु केनचिदभिप्रायविशेषेणैव कदाचिदेव प्रस्थकतया व्यवहरति । अतोऽपि तत्तदवस्थं काष्ठादिकमुपचारेणैव प्रस्थक इति व्यवहारनयाभिप्रायो मन्तव्य एवेति ध्येयम् । इत्थञ्चैतद् मन्तव्यम् । नैगमादारभ्यैवंभूतं यावद्ये ये वचनप्रयोगा यस्य यस्य नयस्याभिप्रेतास्ते सर्वेऽपि क्वचित् कदाचित् केनचित्प्रयोजनविशेषेण लोके प्रयुज्यमाना दृश्यन्त एवेति यः कोऽपि वचनप्रयोगो लोके दृश्यते स सर्वोऽपि व्यवहारस्योपचारेण विना मुख्यतयैव संमत इत्यभ्युपगमे नैगमाद् व्यवहारस्य विशेषाभावापत्तिः स्फुटैव, विभिन्ननयमान्यस्य सर्वस्याप्यर्थस्य नैगमस्येव व्यवहारस्याप्यविशेषेण मान्यत्वादिति तदापत्तिवारणार्थं 'लोके प्राधान्येन प्रयोजनविशेषमनपेक्ष्यैव यो व्यवह्रियते स व्यवहारनयस्य विषयः, तद्भिन्नस्तु यदि स्यादुपचारेणैव, न तु मुख्यतया, नैगमस्य तु सर्वोऽपि मुख्यतयैव विषयः' इत्यभ्युपगन्तव्यमेव । ततश्च नैगमस्यानेकवस्त्वभ्युपगमपरत्वं व्यवहारस्य त्वेकवस्त्वभ्युपगमपरत्वमिति विशेषोऽपि लभ्यत एव । अधिकं निक्षेपविंशिकायां द्रष्टव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372