Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 305
________________ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं T गुणप्पमा दुवि पण्णत्ते । तंजहा- इत्तरिए य आवकहिए य । छेदोवट्ठावणियचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - सातियारे य निरतियारे य । परिहारविसुद्धियचरित्तगुणप्पमामणे दुविहे पण्णत्ते । तंजहा - णिव्विसमाणए य णिविट्ठकायिए य । सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तंजहा - संकिलिस्समाणयं च विसुज्झमाणयं च । अहक्खायचरित्तगुणप्पमाणे दुविहे पण्णत्ते । तं- जहा पडिवाई य अपडिवाई यछत्थे चरमतीर्थकरकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति । आत्मन: कथां यावद् यदास्ते तद् यावत्कथं यावज्जीवमित्यर्थः, यावत्कथमेव यावत्कथिकम् । एतच्च भरतैरावतेष्वाद्य-चरमवर्जमध्यमतीर्थकरसाधूनां महाविदेहतीर्थकरयतीनां च संभवति । पूर्वपर्यायस्य छेदेनोपस्थापनं महाव्रतेषु यत्र तच्छेदोपस्थापनम्, भरतैरावतप्रथम-पश्चिमतीर्थकरतीर्थ एव, नान्यत्र । तच्च सातिचारं निरतिचारं च । तत्रेत्वरसामायिकस्य शिक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्क्रामतः साधोर्यथा पार्श्वनाथतीर्थान्महावीरतीर्थं सङ्क्रामतस्तन्निरतिचारम् । मूलगुणघातिनस्तु यत् पुनर्व्रतारोपणं तत् सातिचारम् । परिहारः तपोविशेषस्तेन विशुद्धम्, अथवा परिहारः अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत् परिहारविशुद्धम्, तदेव परिहारविशुद्धिकम् । तदपि द्विविधम्निर्विश्यमानकं निर्विष्टकायिकं च । तत्र निर्विश्यमानम् आसेव्यमानम्, अथवा तदनुष्ठातारः साधवो निर्विश्यमानकाः, तत्सहयोगात्तदपि निर्विश्यमानकम् । निर्विष्ट आसेवितप्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिका: साधवः, तदाश्रयित्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् । इदमत्र हृदयम्- तीर्थकरचरणमूले येन तीर्थकरसमीपे अदः प्रतिपन्नपूर्वं तदन्तिके वा नवको गणः परिहारविशुद्धिचारित्रं प्रतिपद्यते, नान्यस्य समीपे, तत्रैकः कल्पस्थितो यदन्ति सर्वा सामाचा क्रियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इत्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्यकर्तृत्वं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते । तत्र परिहारकाणां तपः प्रोच्यतेग्रीष्मे जघन्यतश्चतुर्थं मध्यमपदे षष्ठम् उत्कृष्टतस्त्वष्टमम्, शिशिरे जघन्य मध्यमोत्कृष्टपदेषु यथासङ्ख्यं षष्ठमष्टमं दशमं च, वर्षासु जघन्यादिपदत्रयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थिता-ऽनुपरिहारिकाः पञ्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च नवानामप्याचामाम्लमेव, नान्यत् । ततः परिहारिकाः षण्मासान् यावद्यथोक्तं तपः कृत्वा अपरिहार प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकताम्, तैरपि षण्मासान् यावद्यदा तपः कृतं भवति तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अग्रेतनश्चासौ षड् मासान् यावद्यथोक्तं तपः करोति, शेषास्तु सप्ताऽनुचरतामाश्रयन्ति । एवं चाष्टादशभिर्मासैरयं कल्पः समाप्यते । तत्समाप्तौ च भूयस्तमेव कल्पं जिनकल्पं वा प्रतिपद्येरन् गच्छं वा प्रत्यागच्छेयुरिति त्रयी गतिः । अपरं २८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372