Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 303
________________ २८६ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४७०) अहवा आगमे तिविहे पण्णत्ते । तंजहा- सुत्तागमे य अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं०-अत्तागमे अणंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स वि णो अत्तागमे, णो अणंतरागमे, परंपरागमे । सेतं लोगुत्तरिए । सेतं आगमे। सेतं णाणगुणप्पमाणे । (सू० ४७१) से किं तं दंसणगुणप्पमाणे ? दंसणगुणप्पमाणे चउव्विहे पण्णत्ते । तंजहा-चक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे य । चक्खुदंसणं चक्खुदंसणिस्स घड-पड-कड-रधादिएसु दव्वेसु, भिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वात्, भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात् । न च वक्तव्यम्- वचनस्य पौद्गलिकत्वमसिद्धम्, महाध्वनिपटलपूरितश्रवणबाधिर्य-कुड्यस्खलनाद्यन्यथानुपपत्तेः । तस्मान्नैकान्तेनापौरुषेयमागमवच:, ताल्वादिव्यापाराभिव्यङ्ग्यत्वात्, देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते, स्थानान्तरनिर्णीतत्वादिति । सेत्तं लोगुत्तरिए इत्यादि निगमनत्रयम् । उक्तं ज्ञानगुणप्रमाणम् । अथ दर्शनगुणप्रमाणमाह- से किं तं दसणगुणप्पमाणे इत्यादि। दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति । उक्तं च - जं सामन्नग्गहणं भावाणं नेय कटुमागारं । अविसेसिऊण अत्थे दंसणमिइ वुच्चए समए ॥१|| ( ) तदेवात्मनो गुणः, स एव प्रमाणं दर्शनगुणप्रमाणम्, इदं च चक्षुर्दर्शनादिभेदाच्चतुर्विधम्, तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च चक्षुर्दर्शनिन: चक्षुर्दर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनम्, भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत् सामान्य-विशेषयो: कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणख्यापनार्थम् । उक्तं च- निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते ( ) इत्यादि । चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चाचक्षुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनम्, तदपि भावाचक्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच्च अचक्षुर्दर्शनिन: अचक्षुर्दर्शनलब्धिमतो जीवस्याऽऽत्मभावे भवति, आत्मनि जीवे भाव: संश्लिष्टतया सम्बन्धः, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं प्रादुरस्तीत्यर्थः । इदमुक्तं भवति- चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372