Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 304
________________ श्रीअनुयोगद्वारसूत्रम् [सू०४७२] २८७ अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदसणं ओहिदंसणिस्स सव्वरूविदव्वेहिं न पुण सव्वपज्जवेहिं, केवलदंसणं केवलदंसणिस्स सव्वदव्वेहिं सव्वपज्जवेहि य । सेतं दसणगुणप्पमाणे। (सू० ४७२) से किं तं चरित्तगुणप्पमाणे ? चरित्तगुणप्पमाणे पंचविहे पण्णत्ते । तंजहा- सामाइयचरित्तगुणप्पमाणे छेदोवट्ठावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित्तगुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइयचरित्तख्यापनार्थं घटादिषु चक्षुर्दर्शनं भवतीति पूर्वं विषयस्य भेदेनाभिधानं कृतम्, श्रोत्रादीनि तु प्राप्यकारीणि ततो द्रव्येन्द्रियसंश्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति। उक्तं च - पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु (आवश्यकनि० गा०५) इत्यादि । अवधेर्दर्शनमवधिदर्शनम् अवधिदर्शनिन: अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु भवति, न पुन: सर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगता: सङ्ख्येया असङ्ख्येया वा पर्याया विषयत्वेनोक्ता:, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूप-रस-गन्ध-स्पर्शलक्षणाश्चत्वार: पर्याया इत्यर्थः । उक्तं च दव्वाओ असंखेज्जे संखेज्जे यावि पज्जवे लहइ । दो पज्जवे दुगुणिए लहइ य एगाउ दव्वाओ ॥१॥ ( ) अत्राह- ननु पर्याया विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, तत् कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्तम्, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मंदादि सामान्यमेव तथा तथा विशिष्यते, न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यत: सामान्यं गुणीभूतास्तु विशेषा अप्यस्य विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यास: । केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनं केवलदर्शनिन: तदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम्, अतस्तदर्शनं नोक्तमिति । तदेतद्दर्शनगुणप्रमाणम् । से किं तं चरित्तगुणप्पमाणे इत्यादि । चरन्त्यनिन्दितमनेनेति चरित्रम्, तदेव चारित्रम्, चारित्रमेव गुण:, स एव प्रमाणं (चारित्रगुणप्रमाणं) सावद्ययोगविरतिरूपम् । तच्च पञ्चविधं सामायिकादि । पञ्चविधमप्येतदविशेषत: सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा भिद्यते । तत्राद्यं विशेषाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति । सामायिकं पूर्वोक्तशब्दार्थम्, तच्चेत्वरं यावत्कथिकं च । तत्रेत्वरं भाविव्यपदेशान्तरत्वात् स्वल्पकालम्, तच्चाद्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372