Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 301
________________ २८४ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेत (सू० ४६१) से किं तं पायसाहम्मे ? पायसहम्मे- जहा गो तहा गवयो, जहा गवयो तहा गो । सेतं पायसाहम्मे । (सू० ४६२) से किं तं सव्वसाहम्मे ? सव्वसाहम्मे- ओवम्मं णत्थि, तहा वि तेणेव तस्स ओवम्मं कीरइ, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, साहुणा साहुसरिसं कयं । सेतं सव्वसाहम्मे। सेतं साहम्मोवणीए । __ (सू० ४६३) से किं तं वेहम्मोवणीए ? वेहम्मोवणीए तिविहे पण्णत्ते। तंजहाकिंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । (सू० ४६४) से किं तं किंचिवेहम्मे ? किंचिवेहम्मे जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । सेतं किंचिवेहम्मे। (सू० ४६५) से किं तं पायवेहम्मे ? पायवेहम्मे जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । सेतं पायवेहम्मे । सकम्बलो गौत्तकण्ठस्तु गवय इति प्राय:साधर्म्यता । सर्वसाधर्म्य तु क्षेत्र-कालादिभिर्भेदान्न कस्यापि केनचित् सार्द्धं संभवति, संभवे त्वेकताप्रसङ्गः । तथुपमानस्य तृतीयभेदोपन्यासोऽनर्थक एवेत्याशङ्कयाह- तथापि तस्य विवक्षितस्याहंदादेस्तेनैव अर्हदादिना औपम्यं क्रियते, तद्यथाअर्हता अर्हतः सदृशं कृतम्, तत् किमपि सर्वोत्तमं तीर्थप्रवर्तनादि कार्यमर्हता कृतं यदर्हन्नेव करोति नापरः कश्चिदिति भावः, एवं च स एव तेनोपमीयते । लोकेऽपि हि केनचिदत्यद्भुते कार्ये कृते वक्तारो दृश्यन्ते- तत् किमपीदं भवद्भिः कृतं यद् भवन्त एव कुर्वन्ति नान्य: कश्चिदिति। एवं चक्रवर्ति-(बलदेव-)वासुदेवादिष्वपि वाच्यम्। ___ से किं तं वेहम्मोवणीए इत्यादि । यथेति यादृश: शबलाया गोरपत्यं शाबलेयो न तथा न तादृशो बहुलाया अपत्यं बाहुलेयः, यथा चायं न तथेतरः, अत्र च शेषधर्मेंस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किञ्चिद्वैधयँ भावनीयम् । से किं तं पायवेहम्मे इत्यादि । अत्र वायस-पायसयोः सचेतनत्वा-ऽचेतनत्वादिभिबहुभिर्धर्मेविसंवादात् अभिधानगतवर्णद्वयेन सत्त्वादिमावतश्च साम्यात् प्रायोवैधर्म्यता भावनीया । सर्ववैधयं तु न कस्यचित् केनापि संभवति, सत्त्व-प्रमेयत्वादिभिः सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, तथापि तृतीयभेदोपन्यासवैयर्थ्यमाशङ्कयाह- तथापि तस्य तेनैवौपम्यं क्रियते, यथा नीचेन नीचसदृशं कृतं गुरुघातादीत्यादि। आह- नीचेन नीचसदृशं कृतमित्यादि ब्रुवता साधर्म्यमेवोक्तं स्यान्न वैधर्म्यम्, सत्यम्, किन्तु नीचोऽपि प्रायो नैवंविधं महापापमाचरति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372