Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 299
________________ २८२ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं ___ (सू० ४५१) से किं तं तीतकालगहणं ? तीतकालगहणं- उत्तिणाणि वणाणि निप्पण्णसस्सं वा मेदिणिं पुण्णाणि य कुंड-सर-णदि-दीहिया-तलागाइं पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी आसि । सेतं तीतकालगहणं ।। (सू० ४५२) से किं तं पडुप्पण्णकालगहणं? पडुप्पण्णकालगहणं- साहुं गोयरग्गगयं विच्छड्डियपउरभत्त-पाणं पासित्ता तेणं साहिज्जइ जहा-सुभिक्खं वदृइ । सेतं पडुप्पण्णकालगहणं । (सू० ४५३) से किं तं अणागयकालगहणं ? अणागयकालगहणंअब्भस्स निम्मलत्तं कसिणा य गिरी सविजया मेहा ।। थणियं वाउब्भामो संझा रत्ता य णिद्धा य ॥११८॥ वारुणं वा माहिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ जहासुवुट्ठी भविस्सइ । सेतं अणागतकालगहणं । (सू० ४५४) एएसिं चेव विवच्चासे तिविहं गहणं भवति । तंजहा-तीतकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं । (सू० ४५५) से किं तं तीतकालगहणं ? नित्तणाई वणाई अनिप्फण्णसस्सं च मेतिणिं सुक्काणि य कुंड-सर-णदि-दह-तलागाइं पासित्ता तेणं साहिजति जहा-कुवुट्ठी आसी । सेतं तीयकालगहणं ।। प्रत्युत्पन्नो वर्तमान: कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम्, अनागतो भविष्यत्कालस्तद्विषयं ग्रहणमनागतकालग्रहणम्, कालत्रयवर्तिनोऽपि विषयस्यानुमानात् परिच्छेदो भवतीत्यर्थः । तत्र उत्तिणाई ति उद्गतानि तृणानि येषु वनेषु तानि तथा, अयमत्र प्रयोग:- सुवृष्टिरिहासीत्, उत्तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनात्, अभिमतदेशवदित्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः । साधं च गोचराग्रगतं भिक्षाप्रविष्टं विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति- सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्त-पानलाभदर्शनात्, पूर्वदृष्टप्रदेशवदिति । अब्भस्स निम्मलत्तं गाहा सुगमा । नवरं स्तनितं मेघगर्जितम् । वाउब्भामो त्ति तथाविधो वृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः। वारुणं ति आर्द्रा-मूलादिनक्षत्रप्रभवम्, माहेन्द्रं रोहिणी-ज्येष्ठादिनक्षत्रसम्भवम्, अन्यतरमुत्पातम् उल्कापात-दिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते, यथा- सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वादीनां समुदितानामन्यतरस्य वा दर्शनात्, यथाऽन्यदेति । विशिष्टा ह्यभ्रनिर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यत: प्रतिपत्त्रैव तत्र निपुणेन भाव्यमिति । एतेसिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372