Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 253
________________ २३६ आ. श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं तु देयमेव भवति, न तच्छतांशः, नाणकतयाऽप्रसिद्धत्वात् । एवं पैसकस्य नाणकतया विभागस्या(= अंशस्या ) ऽशक्यत्वादविभाज्यत्वं सिद्धम् । तथापि यदा पञ्चाशत् तिलाः पञ्च च चणकाः क्रेयाः स्युः, तदोभयमूल्यतयैकमेव पैसकं देयं भवति, न तु द्वे पैसके । क्रयणानन्तरं यदि कश्चित्पृच्छति, तदोत्तरमपि 'पैसकार्धेन तिलाः क्रीताः, अर्धकेन च चणकाः' इत्येवं दीयत इति तिलाद्यपेक्षया पैसकस्य विभाज्यत्वमपि सिद्धम् । ततश्च नाणकापेक्षया पैसकं स्यादविभाज्यमेव, तिलाद्यपेक्षया स्याद् विभाज्यमेवेति । एवमेव कालापेक्षया समयः स्यादविभाज्य एव, क्षेत्राद्यपेक्षया तु स्याद् विभाज्य एवेति । तच्चैवं परमाणुपुग्गलेणं भंते लोगस्स पुरच्छिमिल्लातो चरिमंताओ पच्चत्थमिल्लं चरिमंतं एगसमएणं गच्छति ? दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं चरिमंतं, उत्तरिल्लाओ चरिमंताओ दाहिणिल्लं चरिमंतं, उवरिल्लाओ चरिमंताओ हेठिल्लं चरिमंतं, हेठिल्लाओ चरिमंताओ उवरिल्लं चरिमंतं एगेणं समएणं गच्छति ? हंता गोयमा जाव गच्छति ।। इति भगवतीसूत्रे शतक १६ उद्देश ८ ।। त्ति भगवतीसूत्रेण ज्ञायते यद् एकः परमाणुर्लोकस्य सर्वाधस्तनप्रतरादनुश्रेण्या गत्या सर्वोपरितनप्रतरं यावदेकेन समयेन गच्छतीति । यदि स परमाणुस्तिर्यग्लोकं यावदेव गच्छेत्, तदाप्येकः समयस्तु लगत्येव, 'तदर्धेन कालखण्डेन तेन सप्तरज्जूमितं तदर्धं क्षेत्रं व्यतिक्रान्तं' इति वक्तुं न पार्यते । एवं यदि स एकां रज्जूं यावदेव गच्छेत्, तदाप्येकः समयस्तु लगत्येव । एवं यावत् स एकं नभःप्रदेशमेव यदि व्यतिक्रामेत, तदाप्येकः समयस्तु लगत्येव । तथैकेनैव समयेनाधोलोकस्य सर्वान्तिमप्रतरादूर्ध्वलोकस्य सर्वोपरितनं प्रतरं गच्छन्तं परमाणुमुद्दिश्य केवलज्ञान्यपि 'अधुना स तिर्यग्लोकं प्राप्त, अथ च ब्रह्मलोकं प्राप्तः... साम्प्रतं सिद्धशिलां प्राप्तः...' इत्यादिविभागेन ज्ञातुं नैव समर्थः । इत्थञ्च समयस्य निरंशत्वसिद्ध्या स्यादविभाज्यत्वमेव, कालापेक्षया तद्विभागस्यासम्भवात् । अथ क्षेत्रापेक्षया यदि विचार्यते, तदा तस्य विभाज्यत्वमपि ज्ञायत एव । तच्चैवं द्वे एव द्रव्ये गतिशीले, पुद्गलो जीवश्चेति । तत्र पुद्गलः स्पर्शवानेव । जीवस्तु स्पर्शवानपि, स्पर्शशून्योऽपि । कर्मयुक्तो जीवस्तैजसकार्मणादिपुद्गलैः क्षीरनीरवद् व्याप्ततया कथञ्चिन्मूर्तत्वेन स्पर्शवान् व्यवह्रियते । कर्ममुक्तस्त्वमूर्ततया स्पर्शशून्य एव । अतो निर्वाणस्थानात् सिद्धशिलां प्रति कर्ममुक्तस्य जीवस्य यैकसामायिक्यनुश्रेणिर्गतिर्भवति सा 'अस्पृशतो द्रव्यस्य गतिरस्पृशद्गतिरिति व्युत्पत्त्या 'अस्पृशद्गतिः' उच्यते । तद्भिन्ना तु या कापि जीवस्य पुद्गलस्य वा गतिर्भवति सा सर्वाऽपि स्पृशद्गतिरेव, अन्यथा कर्ममुक्तस्य जीवस्य गतेरस्पृशद्गतित्वकथनस्यानतिप्रयोजनत्वापत्तेः । अतो लोकस्य सर्वाधस्तनप्रतरात् सर्वोपरितनप्रतरं यावत्परमाणोर्या गतिर्भवति सापि स्पृशद्गतिरेवेति 'तच्छ्रेणिगतान् सर्वान् नभःप्रदेशान् स्पृष्ट्वा स परमाणुर्गतः' इति मन्तव्यमेव । किञ्चैकयैव हेलया तु स परमाणुस्तच्छ्रेणिगतान् स्वावगाढ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372