Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 286
________________ २६९ श्रीअनुयोगद्वारसूत्रम् [सू०४२३] (सू० ४२३) (१) मणूसाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता? गो० ! दुविहा पण्णत्ता । तंजहा-बद्धेल्लया य मुक्केल्लया य । तत्थ णं जे ते बद्धेल्लया ते णं सिय संखेजा सिय असंखेजा, जहण्णपदे संखेजा, संखेजाओ कोडीओ, तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, अहवणं छट्ठो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउतिछेयणगदाई रासी, उक्कोसपदे असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए रूवपक्खित्तेहिं मणूसेहिं सेढी अवहीरति, असंखेजाहिं उस्सप्पिणी-ओसप्पिणीहिं कालओ, खेत्तगे अंगुलपढमवग्गमूलं ततियवग्गमूलपडुप्पण्णं । मुक्केल्लया जहा ओहिया ओरालियाणं ।। विष्कम्भसूचिरङ्गुलप्रथमवर्गमूलस्यासङ्ख्येयभाग: । शेषभावना असुरकुमारवत् कार्या । मणूसाणं भंते ! केवइया इत्यादि । इह मनुष्या द्विविधाः वान्तपित्तादिजन्मान: सम्मूछेजा:, स्त्रीगर्भोत्पन्ना गर्भजाश्च । तत्राद्या: कदाचिन्न भवन्त्येव, जघन्यत: समयस्योत्कृष्टतस्तु चतुर्विंशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात्, उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परत: सर्वेषां निर्लेपत्वसम्भवात् । यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सङ्ख्यया भवन्ति, नासङ्ख्येयाः, तत्र सम्मूर्छजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा जघन्यपदवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानि सङ्ख्येयान्येव, अत उक्तम्- जहण्णपए संखेज्ज त्ति । सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकमित्याह- सङ्ख्येया: कोटय:, पुनर्विशेषितं तमाह- तिजमलपयस्स उवरिं चउजमलपयस्स हे? त्ति । इदमुक्तं भवतिअष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं त्रियमलपदम्, षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रियमलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुविंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः । तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह-, चउजमलपदस्स हे? त्ति, चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थं यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमलपदस्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणस्वरूपेषु प्रकृतमनुष्यसङ्ख्या वर्तत इति भावः । अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषट्कलक्षणं तस्योपरि, चतुर्यमलपदस्य तु वर्गाष्टकलक्षणस्याधस्तादेतन्मनुष्यसङ्ख्या लभ्यते, षष्ठवर्गस्योपरि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372