Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 295
________________ २७८ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति-अभयशेखरसूरिविरचितटिप्पणीसमेतं (सू० ४४४) से किं तं कारणेणं ? कारणेणं- तंतवो पडस्स कारणं ण पडो तंतुकारणं, वीरणा कडस्स कारणं ण कडो वीरणकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्पिंडकारणं । सेतं कारणेणं । भाव: । क्वचित्तु प्रथमत: शङ्ख शब्देनेत्यादि दृश्यते, तत्रोक्तानुसारत: सर्वोदाहरणेषु भावना कार्या । से किं तं कारणेणमित्यादि इह कारणेन कार्यमनुमीयते, यथा विशिष्टमेघोन्नतिदर्शनात् कश्चिद् वृष्ट्यनुमानं करोति, यदाह रोलम्ब-गवल-व्याल-तमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवप्रायाः पयोमुचः ॥१॥ (न्यायमञ्जर्याम् ) इति । एवं चन्द्रोदयाज्जलधिवृद्धिरनुमीयते कुमुदविकासश्च, मित्रोदयाज्जलरुहप्रबोधो घूकमदमोक्षश्च, तथाविधवर्षणात् सस्यनिष्पत्तिः कृषीवलमन:प्रमोदश्चेत्यादि, तदेवं कारणमेवेहानुमापकं साध्यस्य, नाकारणम्, तत्र कार्यकारणभाव एव केषाञ्चिद्विप्रतिपत्तिं पश्यस्तमेव तावन्नियतं दशर्यन्नाहतन्तव: पटस्य कारणम्, न तु पटस्तन्तूनां कारणम्, पूर्वमनुपलब्धस्य तस्यैव तद्भावे उपलम्भाद्, इतरेषां तु पटाभावेऽप्युपलम्भात् । अत्राह- ननु यदा कश्चिन्निपुण: पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति तदा पटोऽपि तन्तूनां कारणं भवत्येव, नैवम्, सत्त्वेनोपयोगाभावात्, यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुपकुरुते तदेव तस्य कारणत्वेन व्यपदिश्यते, ११६यथा मृत्पिण्डो घटस्य, ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तव: समुत्पद्यन्ते तेषां कथं पट: कारणं निर्दिश्यते ? न हि ज्वराभावेन भवत अरोगितासुखस्य ज्वर: कारणमिति शक्यते वक्तुम्। यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत्कारणं न स्युरिति चेत्, नैवम्, तन्तुपरिणामरूप एव हि पटः, ११७यदि च तन्तव: सर्वथाऽभावीभवेयुस्तदा ११६. यथा मृत्पिण्डो घटस्येति । अत्र ‘पिण्ड'शब्दो द्रव्यार्थको ज्ञेयः, ततश्च यथा मृद्रव्यं घटस्येत्यर्थो लभ्यते । अन्यथा घटावस्थायां पिण्डस्याभावेन सत्त्वेनोपयोगाभावाविशेषात् पटस्येवाकारणत्वमेव स्यात् । अत एवाग्रे 'तदा मृदभावे घटस्येव' इत्यत्र वृत्तिकारैः 'मृत्पिण्डाभावे' इत्येवं नोक्तम्, अपि तु 'मृदभावे (= मृद्रव्याभावे)' इत्येवमेवोक्तम् । ११७. यदि च तन्तवः सर्वथाऽभावीभवेयुरित्यादि । ननु वियोजनकाले पटोऽपि नैव सर्वथाऽभावीभवति, कस्यचिदपि भावस्य सर्वथाऽभावीभवनस्य निषिद्धत्वेन तदापि तन्तुत्वेन पटस्य भावात् । तथा श्रीतत्त्वार्थसूत्रे पञ्चमेऽध्याये 'सङ्घातभेदेभ्य उत्पद्यन्ते' ।।२७।। 'भेदादणुः ।।२८ ।।' इत्यादिना व्यणुकभेदात् परमाणोरुत्पत्तिः कथितैव । ततश्च पटोऽपि कथं न तन्तुकारणमिति चेत् ? न, अभिप्रायापरिज्ञानात् । तथाहि-पटकालेऽपि तन्तूनां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372