Book Title: Agam 45 Chulika 02 Anuyogdwar Sutra
Author(s): Abhayshekharsuri
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 277
________________ आ.श्रीमलधारिहेमचन्द्रसूरिविरचितवृत्ति - अभयशेखरसूरिविरचितटिप्पणीसमेतं मुलगा ते णं अणंता अनंताहिं उस्सप्पिणी-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो अणंता लोगा, दव्वओ अभवसिद्धिएहिं अनंतगुणा सिद्धाणं अनंतभागो । ( सू० ४१४) केवतिया णं भंते ! वेउव्वियसरीरा पं० ? गोतमा ! दुविहा पण्णत्ता । ग्रहणमापन्नम्, एवं च सत्यभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागे इत्येतद्विरुध्यते, सर्वपुद्गलास्तिकायगतपुद्गलानां सर्वजीवेभ्योऽप्यनन्तानन्तगुणत्वात्, अत्रोच्यते, नैष दोषः, भवदुपन्यस्तपक्षद्वयस्याप्यनङ्गीकरणात्, किन्तु जीवविप्रमुक्ते एकैकस्मिन्नौदारिकशरीरे यान्यनन्तखण्डानि जायन्ते तानि च यावदद्यापि तं जीवप्रयोगनिर्वर्तितमौदारिकशरीरपरिणामं परित्यज्य परिणामान्तरं नासादयन्ति तावदौदारिकशरीरावयवत्वादेकदेशदाहेऽपि 'ग्रामो दग्धः, पटो दग्धः' इत्यादिवदवयवे समुदायोपचारादिह प्रत्येकमौदारिकशरीराणि भण्यन्ते, ततश्चैकैकस्य जीवविप्रमुक्तौदारिकशरीरस्यानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद् एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसङ्ख्यान्यौदारिशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितम् । तदेवमोघत उक्ता औदारिकशरीरसङ्ख्या, विभागतोऽप्युपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति १ । अथौघत एव वैक्रियसङ्ख्यामाह - केवइया णं भंते वेउव्वियेत्यादि । तत्र नारक - देवानामेतानि मुक्तः' इति । ननु सर्वपुद्गलास्तिकायगतसर्वपुद्गलानां सर्वजीवेभ्योऽनन्तानन्तगुणत्वं वृत्तावप्यग्रे कथयिष्यते। ततश्च कथमेकस्याप्येवंविधस्य पुद्गलपरावर्तस्य सम्पूर्णेऽप्यतीतकाले सम्भवः ? अयम्भावः-पृच्छासमयं यावदेकेन जीवेन गृहीताः पुद्गलाः कियन्त इति प्रापणार्थं 'प्रतिसमयं गृह्यमाणपुद्गलराशिप्रमाणेन गुण्यमानेऽतीतकालगतसमयराशौ यत्प्राप्यते तत्प्रमाणाः' इति करणमुपयुज्यते । अत्र च प्रतिसमयं गृह्यमाणपुद्गलराशिरभव्यजीवद्रव्यसङ्ख्यातो-ऽनन्तगुणप्रमाणः सिद्धजीवद्रव्यसङ्ख्यातश्चानन्तभागप्रमाणो वर्तते । तथाऽतीतकालगतसमयराशिः षण्मासगतसमयप्रमाणाऽसङ्ख्येयगुणितसिद्धजीवद्रव्यसङ्ख्याया न्यूनो भवति, मुक्तिप्राप्तेरुत्कृष्टान्तरस्य षण्मासत्वात् । ततश्च प्रथमराशि (सिद्ध - अनंत ) गुणितो द्वितीयराशिः (सिद्ध x असङ्ख्य ) सिद्धजीववर्गापेक्षया न्यूनः प्राप्यत इति स्पष्टम् । अयञ्च राशिर्न सर्वजीवेभ्योऽनन्तानन्तगुणः, अपि त्वनन्तभागवर्त्येवेत्यपि स्पष्टमेव । इत्थञ्चोपरि यादृशः पुद्गलपरावर्त उक्तः, तादृशो नैकोऽप्यद्य यावद् व्यतीत इति सिद्धम्, सर्वपुद्गलास्तिकायगतसर्वपुद्गलानन्तभागवर्तिपुद्गलानामेवैकेन जीवेन पृच्छासमयं यावद् गृहीतत्वात् । ननु शास्त्रे त्वनन्ता पुद्गलपरावर्ता व्यतीता इति श्रूयते । सत्यं, अत एव पुद्गलपरावर्तस्य या परिभाषाऽस्माभिरवबुध्यते तदन्यैव काचित्परिभाषा वस्तुतो भवेदिति मन्तव्यम् । 'साच का ?' इति निर्णेतुं न वयं समर्थाः, बहुश्रुता एवात्र प्रक्रमे प्रष्टव्याः । २६० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372