Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
M
~
दुर्णिमायावचूरी उ० १ सू० ४३-४६
आहारादिग्रहणविधिः ३३ नैव च परिभुञ्जीत न स्वकार्ये व्यापारयेत्, किन्तु निम्रन्थवदेव गृहस्थेन दीयमानं वस्त्रादिकं साकारकृतमिति कृत्वा 'नेदं मम वस्त्रादि, किन्तु प्रवर्तिनीसत्कं प्रातिहारिकं वाऽस्ती'-तिकृत्वा प्रवर्तिनीसमीपे स्थापयित्वाऽवग्रहानुज्ञापूर्वकं तत्प्रदत्तं वस्त्रादिकं विनयेन स्वीकुर्यात्, तदेव च परिभुञ्जीतेति निम्रन्थीकल्पः ॥ ३० ॥
पूर्व निर्ग्रन्थनिर्ग्रन्थीनां वस्त्रपात्रादिग्रहणविधिः प्रतिपादितः, साम्प्रतं वस्त्रादिग्रहणानन्तरमाहाराधिकार इति रात्रौ विकाले वाऽऽडारग्रहणनिषेधं प्रदर्शयति-'नो कप्पइ० राओवा०' इत्यादि।
सूत्रम्--नो कप्पइ निग्गंथाण वा निग्गंथीण वा राओ वा वियाले वा असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्तए, नन्नत्थ एगेणं पुन्धपडिलेहिएणं सेज्जासंथारएणं ॥ सू०४३॥
छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिग्रहीतुम्, नान्यत्र एकेन पूर्वप्रतिलेखितेन शय्यासं. स्तारकेण ॥ सू० ४३॥
___ चूर्णी-'नो कप्पई' इति । निम्रन्थानां वा निम्रन्थीनां वा रात्रौ वा रात्रिमध्ये विकाले वा सन्ध्यासमये 'असणं वा' इति अशनादि चतुर्विधमाहारं प्रतिग्रहीतुम् आदातुं न कल्पते । अत्र विकाले चतुर्विधाहारनिषेधस्तर्हि किमन्यदप्युपधिजातं रात्रौ विकाले वा ग्रहीतुं न कल्पते ? अत्राह सूत्रकारः-'नन्नत्थ' इत्यादि, एकेन केवलेन 'सेज्जासंथारएणं' शय्यासंस्तारकेण, तत्र शय्या शरीरप्रमाणा, संस्तारकः सार्द्धतृतीयहस्तप्रमाणः, शय्या च संस्तारकश्चेति समाहारे शय्यासंस्तारकम्, तेन, कीदृशेन शय्यासंस्तारकेण ? तत्राह-पूर्वप्रतिलेखितेन-पूर्व दिवसे यत् प्रतिलेखितं भवेत् तेन विना अन्यत्र न, तत्त्यक्त्वा अन्यत् किमपि न कल्पते, दिवसे शय्यासंस्तारकस्य प्रतिलेखनां कृत्वाऽन्यत्र स्थाने वसतौ स्थानाभावे चौरादिशङ्कया वा गृहस्थनिश्रया तद्गृहे स्थापितं भवेतदा तद् रात्रौ विकाले वा शयनाथ प्रतिग्रहीतुं कल्पते नान्यदिति भावः ॥ सू० ४३ ॥
पूर्व रात्रौ विकाले वा अशनादिग्रहणनिषेधः प्रोक्तः, साम्प्रतं वस्त्रादिग्रहणनिषेधमाह'नो कप्पइ० वत्थं वा' इत्यादि ।
सूत्रम्--नो कप्पइ निग्गंथाण वा निग्गथीण वा राओ वा वियाले वा वत्थं बा पडिग्गरं वा कंबलं वा पायपुंछणं वा पडिग्गाहित्तए, नन्नत्थ एगाए हरियाहडियाए, सावि य परिभुत्ता वा धोया वा रत्तावा घट्टा वा मट्ठा वा संपधृमिया वा ॥ सू०४४॥
छाया-नो कल्पते निर्ग्रन्थानां वा गिर्ग्रन्थीनां वा रात्रौ वा विकाले वा वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा प्रतिग्रहीतुम्, नान्यत्र एकया हृताहृतया, साऽपि च परिभुक्ता वा धौता वा रजिता वा धृष्टा वा मृष्टा वा संप्रधूमिता वा ॥ सू०४४॥