Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 161
________________ ૨ बृहत्कल्पसूत्रे आतापयितुम्, कल्पते तस्या उपाश्रयस्य अन्तर्वगडायां संघाटी प्रतिबद्धायाः प्रलम्बितबाहायाः समतलपादिकायाः स्थित्वा आतापनया आतापयितुम् ॥ सू० २२ ।। चूर्णी - 'नो कप्प' इति । नो कल्पते निर्ग्रन्ध्याः किमित्याह - ग्रामादेर्बहिः प्रदेशे बाहू ऊर्ध्वकृत्य सूर्याभिमुखीभूत्वा एकपादेन ऊर्ध्वभूताया आतापनामातापयितुं न कल्पते इति निषेधसूत्रस्य संक्षेपार्थः । कथं कल्पते ? इति विधिसूत्रसंक्षेपार्थो यथा - ग्रामादेर्मध्ये उपाश्रयभूमेरभ्यन्तरे संघाचादिना समुचितावृतशरीरायाः बाहू अधोभागे प्रलम्ब्य समतल भूमिस्थितपाद - द्वयेन ऊर्ध्वस्थानेन स्थिताया आतापनामातापयितुं कल्पते, इति निषेधविधिगर्भितस्य सूत्रस्य संक्षेपार्थः। विस्तरार्थो यथा - नो कल्पते न युज्यते निर्ग्रन्थ्याः श्रमण्याः ग्रामस्य वा बहिरि - त्यनेनान्वयः । एवं नगरस्य वा खेटस्य वा कर्बटस्य वा पत्तनस्य वा मडम्बस्य वा आकरस्य वा द्रोणमुखस्य वा आश्रमस्य वा संनिवेशस्य वा, तत्र - ग्रामः वृतिवेष्टितजन निवासरूपः, तस्य, आकरःसुवर्णरत्नाद्युत्पत्तिस्थानम् तस्य, नगरम् - अष्टादशकरवर्जितम् तस्य खेटं - धूलिप्राकारपरिक्षिप्तम् तस्य, कर्बेटं - कुत्सितनगरम् तस्य, मडम्बं - सार्धक्रोशद्वयान्तर्ग्रामान्तररहितम् तस्य, द्रोणमुखंजलस्थलपथोपेतो जननिवासः तस्य, पत्तनं समस्तवस्तुप्राप्तिस्थानम् तस्य, तद् द्विविधं भवति-जलपत्तनं स्थलपत्तनं चेति, नौभिर्यत्र गम्यते तज्जलपत्तनं, यत्र च शकटादिभिर्गम्यते तत्स्थलपत्तनम्। यद्वा शकटादिभिनभिर्वा यद् गम्यं तत् पत्तनं, यत् केवलं नौभिरेव गम्यं तत् पट्टनम् इति बोध्यम् । एषां ग्रामादीनां बहिः ऊर्ध्वम् उपरिभागे आकाशे बाहू-भुजौ प्रगृह्य-प्रगृह्य प्रकर्षेण कृत्वा सूराभिमुख्याः सूर्याभिमुखं स्थितायाः एकपादिकायाः ऊर्ध्वोत्थापितैकचरणायाः, एकं पादमा कुञ्चितं कृत्वा उत्थाप्य द्वितीयं पादं भूमौ संस्थाप्य एतादृशरूपेण स्थित्वा ऊर्ध्वस्थानेन ऊर्ध्वोत्थापितशरीरेण स्थित्वा आतापनया आतापनरूपतपोविशेषेण आतापयितुम् - आतापनां ग्रहीतुं न कल्पते इति पूर्वेण सम्बन्धः । तहि कथं कल्पते? इति तद्विधि प्रदर्शयति- 'कप्पर से ' इत्यादि, 'से' तस्या निर्ग्रन्ध्याः कल्पते उपाश्रयस्य अन्तर्वगडायां - प्राकाराभ्यन्तरे भित्याद्याच्छादितप्रदेशे 'वगडा' - शब्दोऽत्र गृहप्राकार रूपार्थवाचको देशीयो वर्त्तते, तस्या, अभ्यन्तरे, तत्रापि कोदृश्याः ? तत्राह - संघाटी प्रतिबद्धायाः संघाटीग्रहणेन अवग्रहानन्तकादीनां निर्ग्रन्थीप्रायोग्यानां समुचितोपकरणानां ग्रहणं भवति, तैः प्रतिबद्धायाः सुप्रावृतशरीरायाः पुनः कीदृश्याः ? इत्याह- 'पलंबियबाहाए' इति प्रलम्बितबाहायाः प्रलम्बिते अघोलम्बमाने बाहे - बाहू यस्याः सा प्रलम्बितबाहा अघोलम्बमानभुजा, तस्याः प्रलम्बीकृतभुजायाः समतलपादिकायाः समतलौ च तौ पादौ चेति समतलपादों, तौ अस्याः स्त इति समतलपादिका तस्याः, पादद्वयं भूमौ समता संस्थाप्य स्थितायाः स्थित्वा - पूर्वोक्तप्रकारेण स्थितिं कृत्वा आतापनया - आतापनाभिघतपोविशेषेण आतापयितुम् आतापनां कर्त्तुं कल्पते । साधोर्वैपरीत्येन साध्वीनामातापना ग्रहण कल्पते, स्त्रीशरीरस्य गोप्यत्वेन तथाविधातापनाग्रहणस्य भगवता प्ररूपितत्वादिति ॥ सू० २२॥

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210