Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
बृहत्कल्पस्ले निष्कारणं शरीरसौन्दर्याद्यर्थ सुगन्धिद्रव्यजातेन गात्राणामुपलेपनमुद्वर्त्तनं च मुनीनां न कल्पते, तादृशावस्थायां कारणे सति यतनया कल्पते इति भावः ॥ सू० ५०॥
__ पूर्व निर्ग्रन्थनिर्ग्रन्थीनां निष्कारणं गात्राभ्यङ्गनादि निषिद्धम्, सम्प्रति निष्कारणं गात्राभ्यङ्गनादिकारी कारणे चायतनया करणशीलः परिहारतपःप्रायश्चित्तभागी भवतीति परिहारकल्पसूत्रमाह- 'परिहारकप्पट्ठिए' इत्यादि ।
सूत्रम्-परिहारकप्पट्ठिए भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, से य आहच्च अइक्कमिज्जा, तं च थेरा जाणिज्जा अप्पणो आगमेणं अन्नेसि वा अंतिए सुच्चा, तो पच्छा तस्य अहालहुस्सए नामं ववहारे पट्टवेयवे सिया ॥ सू०५१॥
छाया-परिहारकल्पस्थितो भिक्षुः बहिः स्थविराणां वैयावृत्त्याय गच्छेत् , स च आहत्य अतिक्रामेत् , तच्च स्थविराः जानीयुः आत्मन आगमेन, अन्येषां वा अन्तिके श्रुत्वा, ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥सू०५१॥
चूर्णी-'परिहारकप्पट्टिए' इति । परिहारकल्पस्थितः परिहारतपो वहमानः भिक्षुः श्रमणः बहिः-स्थितस्थानादन्यत्र ग्रामनगरादौ, तत्रैव वा उपाश्रयान्तरे स्थितानां स्थविराणां वैयावृत्त्याय- वैयावृत्त्यनिमित्तम् उपलक्षणाद् नास्तिकादिवादिजयार्थ वा तादृशकार्यक्षमान्यश्रमणाभावे आचार्योपदिष्टो गच्छेत् , सच तत्र आहत्य-कदाचिद् अनिवार्यकारणवशाद् अज्ञानाद्वा अतिक्रामेत्-प्रतिज्ञाततपोविशेषम् उल्लङ्घयेत् तच्च तस्यातिक्रमणं दोषसेवनरूपम् स्थविराः येषां वैयावृत्त्यार्थमागतस्ते प्रधानाचार्याः आत्मनः स्वस्य आगमेन-आगमोक्तावध्यादिज्ञानेन, वा-अथवा अन्येषाम्-तत्पार्श्वस्थान्यमुनीनां गृहस्थानां वा अन्तिके समीपे श्रुत्वा जानीयुः, तस्यातिक्रमणं स्वस्य ज्ञानविषयीकृतं स्यात् तदा ततः पश्चात् तज्ज्ञानानन्तरं तस्य वैयावृत्त्यार्थमागतस्य परिहारकल्पस्थितस्य श्रमणस्य 'अहालहुस्सए नाम' इति यथालघुस्वकनामकः यथालघुस्वकः यथासंभवं स्तोकप्रायश्चित्तरूपः व्यवहारः प्रस्थापयितव्यः दातव्यः स्यात् । तस्मै यथाशक्यलघुप्रायश्चित्तं दातव्यमिति भावः ॥ सू० ५१ ॥ .. पूर्व परिहारकल्पसूत्रं कथितम्, सम्प्रति भक्तप्रसङ्गात् निर्ग्रन्थीनां पुलाकभक्तसेवनविधिमाह-'निग्गंथीए य' इत्यादि ।
सूत्रम्-निग्गंथीए य गाहावइकुलं पिंडवायपडियाए अणुप्पविटाए अन्नयरे पुलागभत्ते पडिग्गाहिए सिया, सा य संथरिज्जा कप्पइ से तदिवसं तेणेव भत्तटेणं पज्जोसवित्तए, नो से कप्पइ दुच्चंपि गाहावइकुलं पिंडवायपडियाए पविसित्तए वा, सा य नो संथरिज्जा एवं से कप्पई दुच्चं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए ॥सू०५२॥
॥ पंचमोइसो समत्तो ॥५॥
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210