Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
e
वृकल्पसूत्रे
मैथुनलक्षणमित्यभ्याख्यानदानमविरतिकावादलक्षणश्चतुर्थः प्रायश्चित्तप्रस्तारः ४ ।
अपुरुषवादप्रस्तारो यथा - कोऽपि साधू रत्नाधिकेन दुष्प्रत्युपेक्षणादिस्खलने तर्जित - छिद्रान्वेषी भिक्षातो निवृत्त्य रत्नाधिकमुद्दिश्याचार्य भणति - नूनमेष रत्नाधिकोऽपुरुषो नपुंसको वर्त्तते, आचार्येण प्रोक्तम् त्वया कथं ज्ञातम् ! तेनोक्तम् - ममैतस्य निजकैः कथितं यदर्थं नपुंसकः प्रव्राजितो भवतेति । ततो मयाऽपि ज्ञातम् - हसितस्थितचङ्क्रमितशरीर भाषादिलक्षणैः 'अयं नपुंसकः' इति । एवमभ्याख्यानदानं पञ्चमोऽपुरुषवादरूपः प्रायश्चित्तप्रस्तारः ५ ।
दासवादप्रस्तारो यथा-पूर्ववदेव कोऽपि साधू रत्नाधिकमुद्दिश्याचार्य प्रति भगति - अयं रत्नाधिको दासोऽस्ति । आचार्यैरुक्तम् - कथं जानासि ?, स प्राह- निजकैर्मम कथितं मयाऽपि ज्ञातं च यदसौ शीघ्रकोपशीलः उचितानुचितविवेकविकलां भाषां भाषते, इत्यादिलक्षणैः शरीरसंस्थानादिनाऽपि चास्य दासत्वमनुमीयते इत्याद्यभ्याख्यानदानं दासवादरूपः षष्ठः प्रायश्चित्तप्रस्तारः ६ । एते षट् कल्पस्य प्रस्ताराः प्रायश्चित्तरचनाविशेषाः प्रतिपादिता इति ६ ।
तत्स्था प्राप्तः
अथ सूत्रव्याख्या- 'इच्चेते' इत्यादि, इच्चेते इत्येतान् पूर्वोक्तान् छ कप्पस्स पत्थारे षट् कल्पस्य प्रस्तारान् पत्थारेत्ता प्रस्तीर्य यदि स प्रस्तारकोऽभ्याख्यानदायकः साधुः स्वदत्त - मभ्याख्यानम् सम्भं अपडिपूरेमाणे सम्यक् यथार्थतया अप्रतिपूरयन् तद्वाणपत्ते सिया स्यात्, तत् प्राणातिपातादिकर्त्तर्यत्स्थानं तत्स्थानं प्रायश्चित्तस्थानं प्राप्त भवति । अयं भावः- यत् प्राणातिपातादिरूपेणाभ्याख्यानमन्योपरि येन दत्तं स तस्यासद् - भूततया स्वारोपिताभ्याख्यानस्य सत्यतया समर्थनं कर्त्तुं न शक्नोति तदा तस्यैव अभ्याख्यान दायकस्यैव प्राणातिपातादिकर्तुरिव प्रायश्चित्तस्थानं प्राप्तं भवति, आचार्येण तस्याऽभ्याख्यानदायकस्यैव प्राणातिपातादिपापप्रायश्चित्तं दातव्यमिति । यदि अभ्याख्यानदायकोऽभ्याख्यानदानविषये विवदमानो भवेत्तदा तस्य प्रतिविवादमुत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्त्तव्या, तथाहिप्रथमं मार्गे रत्नाधिकं - 'भवता दर्दुरो मारितः' इति कथयित्वा ततो निवृत्त्याचार्यसमीपं तत्कथनार्थं जति तदा अभ्याख्यानदातृत्वेन तस्याभ्याख्यानदायकस्य मासलघुप्रायश्चित्तं भवति, ततः परं भणने मासगुरु । तस्य भणने यदि आचार्यो यस्योपर्यभ्याख्यानं प्राप्तं तं साधुमाहूय पृच्छति - किं त्वया दर्दुरो मारितः स कथयति-न मारितः, एवं तेन कथिते तस्याभ्याख्यानदायकस्य चतुर्लघुप्रायश्चित्तं भवति । तेन भूयः प्रच्छने प्रेरित आचार्यस्तं पुनः पृच्छति तदाऽपि पूर्ववदेव ‘न मारितः' इति कथने तस्याभ्याख्यानदातुश्चतुर्गुरु । पुनश्वमो भणति यदि न विश्वासस्तदा तत्रोपस्थिता गृहस्थाः प्रष्टव्याः साधवो गृहस्थान् प्रष्टुं गच्छन्ति, पृष्टे सति षड्लघु, पृष्टा गृहस्था भणन्ति-नास्माभिरयं दर्दुरमारणं कुर्वन् दृष्टः, इति तैः कथने षड्गुरु, साधवः समागताः कथयन्ति नापद्रावितोऽनेन दर्दुर इति तदा छेदः ।
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210