Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूणिभाष्यावचूरी उ० ६ सू० २ कल्पस्य षट्प्रस्तारेषु प्रायश्चित्तविधिः १४७ साधुना गुरवे कथितं यदमुकेन साधुना मण्डूको मारितः, तदा आचार्यस्तं साधुं पृच्छेत् भोस्त्वयां मण्डूको मारितः किम् !, स यदि वदति न मारितः, अविराधने तेन सम्यक् प्रमाणमुपस्थापनीयम् अन्यथा स प्रायश्चित्तभागी भवत्येव । अथवा येनाक्षेपः कृतः स यदि प्रमाणेन स्वकीयमारोपणं न प्रमाणयितुं शक्नोति तदा स एव तत्स्थानप्राप्तो भवति, प्राणातिपाते यत् प्रायश्चित्तं तस्य प्रायश्चित्तस्य भागी स एवाभ्याख्यानकारको भवति । यः कोपि यस्य कस्याप्युपरि आरोपणं करोति प्राणातिपातादेः स यदि प्रमाणेन स्वकीयमभ्याख्यानं सिद्धं करोति तदा यस्यो. परि आरोपणं कृतं स प्रायश्चित्तभागी भवति । यदि कदाचित् स स्वकृतमारोपणं प्रमाणयितुं न शक्तो भवति तदा अभ्याख्यानकारकस्यैव तादृशं प्रायश्चित्तं भवतीति प्राणातिपातवादविषयः प्रथमः प्रायश्चित्तप्रस्तारः। एवं शुनक-सर्प-मूषक–दृष्टान्ता भावनीयाः १।
____ मृषावादप्रस्तारो यथा-कस्मिंश्चिद् गृहस्थगृहेऽवमरात्निको रत्नाधिकेन सह भिक्षार्थ गतः सन् भोजनकालाभावेन प्रतिषिद्धः प्रत्यावृत्तः। पश्चान्मुहूर्तान्तरे रत्नाधिकेन कथितम्-इदानी भोजनकालः संभाव्यतेऽतो व्रजामो भिक्षार्थम् , अवमेन कथितम् -प्रतिषिद्धोऽहं न व्रजामि । ततो रत्नाधिकेन गत्वा भिक्षा समानीता । सोऽवमः आचार्यायेदमालोचयति यथा-भदन्त ! अयं दीनकरुणवचनैर्याचते प्रतिषिद्धोऽपि गृहस्थगृहं प्रविशति, प्रविष्टश्च मुखप्रियाणि योगचिकित्सानिमित्तानि गृहस्थेभ्यो जल्पति, इत्येवमभ्याख्यानदानं मृषावादरूपो द्वितीयः प्रायश्चित्तप्रस्तारः २ ।
अदत्तादानप्रस्तारो यथा-एकत्र गृहेऽवमरानिकेन यावद् भिक्षा गृहीता तावद् एको रत्नाधिकः कुत्रतो मोदकान् लब्ध्वाऽन्यस्मै अवमाय दत्तवान्, तदितरोऽवमस्तान् मोदकान् दृष्ट्वा प्रत्यावृत्त्य गुरुसमक्षं भणति-आलोचय त्वया रत्नाधिकेनादत्ता मोदका गृहीताः, इत्यभ्याख्यानदानमदत्तादानरूपस्तृतीयः प्रायश्चित्तप्रस्तारः ३ ।
___ अविरतिकावादप्रस्तारो यथा-कश्चिद् अवमरात्निको दशविध च समाचार्या स्खलितो रत्नाधिकेन 'हे दुष्ट शिष्य ! स्खलितोऽसि' इत्यादिवाक्यतस्तर्जित आलोचयति- अयं 'रत्नाधिकोऽह'-मिति गर्वेण मामस्खलितमपि तर्जयति कषायोदयतो मां प्रेरयतीत्यवसरं लब्ध्वा तथा करोमि येनायं लघुको भवतीति । ततोऽन्यदा द्वावपि भिक्षार्थं गतौ, भिक्षामानीय प्रत्यावृत्तौ मार्गे उष्णकालादिकारणवशाद् बुभुक्षितौ तृषितौ तत्रैवं चिन्तितवन्तौ-अत्र परिवाजिकादेवकुले कुटङ्गे लतावृक्षाच्छादितस्थाने प्रथमालिकां-पूर्व किश्चिद् भोजनं-कृत्वा. पानीयं पास्यावः, इति चिन्तयित्वा सुखं स्थिती, अत्रान्तरेऽवमरात्निकेन एका परिव्राजिका तदभिमुखमागच्छन्ती दृष्टा, लब्धोऽवसर इदानीमिति चिन्तयित्वा वदति-कुरुत भदन्ताः ? भवन्तः भोजनपानम् , अहं तु उच्चारार्थ गमिष्यामीति । एवमुक्त्वा शीघ्रमाचार्यसमीपे समागत्य मैथुनेऽभ्याख्यातुं भणति-भदन्त : ज्येष्ठाऽऽर्येणाय सद्य इदानीं परिव्राजिकागृहे प्रतिसेवितमकार्य
Loading... Page Navigation 1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210