Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१५२
बृहत्कल्पसूत्रे
___ चूर्णी-णिग्गंथे णिग्गंथीं वा' इति । निम्रन्थः निम्रन्थी सेयंसि वा सेके वा, तत्र सेको जलसहितकर्दमार्थबोधकः तथा च सेके जलसहितकर्दमे वा पंकसि व पंके वा शुष्कप्राये कर्दमे पणगंसि वा पनके सततजलसम्पत्पिाषाणादौ संलग्नो हरितवर्णों वनस्पतिविशेषः 'लीलण--फूलण' इति प्रसिद्ध तस्मिन् उदगंसि वा उदके जले वा ओकसमाणिं वा अवकर्षन्ती वा जलस्रोतसा नीयमानां 'ओबुडमाणि वा' अवब्रुडन्ती जलसहितकर्दमे पंके जले वा निमज्जन्ती श्रमणी श्रमणः 'गिण्हमाणे' गृह्णन् उद्धरणेच्छया तथा 'अवलंबमाणे वा' अवलम्बमानो वा धारयन् वा 'नाइक्कमइ नातिकामति तीर्थकृतामाज्ञां नोल्लङ्घयतीति ॥ सू० ८॥
सूत्रम्-जिग्गंथे णिग्गंथि णावं आरोहमाणिं वा ओरोहमाणिं वा गिण्हमाणे वा अवलंबमाणे वा णाइक्कमइ ॥ सू० ९॥
छाया-निर्ग्रन्थो निर्ग्रन्थी नावम् आरोहन्ती वा अवरोहन्ती वा गृहन् वा अवलम्बमानो वा नातिकामति ॥ स्० ९॥
चूर्णी-'निग्गंथे' इति । निर्ग्रन्थः 'णिग्गंथिं' णिग्रन्थीं 'णावं' नावं नौकां ‘आरोहमाणि वा' आरोहन्ती-समारोहन्तीम् 'ओरोहमाणिं वा' अवरोहन्तीम् अवतरन्तीम् 'गिण्हमाणे वा' गृह्णन् अवलंबमाणे वा अवलम्बमानो वा श्रमणः णाइक्कमइ नातिक्रमति तीर्थंकराज्ञां नोल्लङ्घयति न विराधयतीति भावः ॥ सूत्र ९ ॥
सूत्रम्-खित्तचित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा गाइक्कमइ ॥ सू० १०॥
छाया-क्षिप्तचित्तां निम्रन्थीं निर्ग्रन्थो गृहन् वा अवलम्बमानो वा नातिकामति ॥ सू० १० ॥
चूर्णी-'खित्तचित्त' इति । क्षिप्तचित्ताम्, तत्र क्षिप्तं विक्षिप्तम् उद्विग्नं मनोग्लान्यादिना चित्तमन्तःकरणं यस्याः श्रमण्याः सा क्षिप्तचित्ता, तादृशीम् निर्ग्रन्थीं निर्ग्रन्थः श्रमणः 'निण्हमाणे वा गृह्णन् वा अवलम्बमाणे वा अवलम्बमानो वा धारयन् वा 'णाइक्कमई' नातिक्रामति तीर्थकराज्ञां नोल्लङ्घयति ॥ सू० १०॥
सूत्रम्-एवं दित्तचित्तं ॥ सू० ११॥ जक्खाइटें० ॥ सू० १२ ॥ उम्मायपत्तं० ॥सू० १३॥ उवसग्गपत्तं णिग्गंथिं णिग्गंथे गिण्हमाणे वा अवलंबमाणे वा नाइक्कमई॥ सू० १४॥
छाया -पवं दीप्तचित्तां यक्षाविष्टामुन्मादप्राप्तामुपसर्गप्राप्तां निर्ग्रन्थीं निग्रंथो गृहन् वा अवलम्बमानो वा नातिकामति ॥ सू० ११-१४॥
चूर्णी-‘एवं दित्तचित्तं' एवं दशमसूत्रोक्तप्रकारेण दीप्तचित्ताम्, तत्र दीप्तं लौकिकलोकोत्तरिकवस्तुविषयकहर्षोद्रेकेण भ्रान्तं चित्तमन्तःकरणं यस्याः सा दीप्तचित्ता, ताम् । यद्वा 'जक्खा
Loading... Page Navigation 1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210