Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 182
________________ चूर्णि भाग्यावचूरी उ० ६ सू० १५-१९ कल्पस्य कौकुचिकादिपदपरिमन्धुवर्णनम् १५३ इट्ठ यक्षाविष्टाम् व्यन्तरदेवपरिगृहीताम्, यद्वा उम्मायपत्तं उन्मादप्राप्ताम्, तत्रोन्मादो नाम - रोगादिना चित्तानवस्थता तद्युक्ताम्, उवसग्गपत्तं उपसर्गप्राप्ताम् - देवमनुष्यतिर्यगादिकृतोपसर्गविशिष्टाम् णिग्गंथिं निर्ग्रन्थीं श्रमणीम् निग्गंथे निर्मन्थः श्रमणः गिण्हमाणे गृह्वन् क्वचित्पतनादितः क्वचिदौषधादिपानार्थं वा अवलम्बमाणे वा अवलम्बमानो वा धारयन् वा इक्म नातिक्रामति तीर्थकराज्ञां नोल्लङ्घयति ॥ सू० ११-१४ ॥ सूत्रम् - - साहिगरणं ॥ सू० १५ ॥ सपायच्छित्तं ॥ सू० १६ ॥ भत्तपाणपडियाइक्खियं ॥ ० १७ ॥ अट्ठजायं निग्गंथिं णिग्गंथे गिण्हमाणे वा अवलंबमाणे वा इक्कम || सू० १८ ॥ छाया - साधिकरणाम् ॥ सू० १५ ॥ सप्रायश्विताम् ॥ स्०-१६ ॥ भक्तपानप्रत्याख्याताम् ॥ सू० १७ ॥ अर्थजातां निर्ग्रन्थीं निर्ग्रन्थो गृहन् वा अवलम्बमानो वा नातिक्रामति ॥ सू० १८ ॥ चूर्णी - 'साहिगरणं' इति । साधिकरणां, तत्राधिकरणं कलहः तेन युक्तामिति साधिकरणाम् -कलहासक्तमानसाम्, तथा सपायच्छित्तं सप्रायश्चित्तां प्रायश्चितेन युक्तामिति सप्रायश्चिताम् प्रायश्चित्तप्राप्तां प्रायश्चित्तेन चलचित्तामित्यर्थः भत्तपाणपडियाइक्खियं भक्तपानप्रत्याख्याताम्, तत्र भक्तमोदनादिकं, पानं जलम्, ते प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता - ताम् गृहीतानशनत्रतामित्यर्थः, अट्ठजायं अर्थनाताम् - अर्थलुब्धाम् भूमिपतितं सुवर्णादिकं दृष्ट्वा तद् ग्रहीतुं नम्रीभूताम्, कुत्राप्यर्थराशिं दृष्ट्वा सञ्जातविकारेण चलचित्ताम्, यद्वा-अर्थाकुलं पतिपुत्रादिकं ज्ञात्वा तत्सहायनिमित्तं द्रव्योपार्जनाय संयमाच्चलितचित्ताम्, यद्वा शिष्यानिमित्तं द्रव्यलाभार्थं गन्तुकामाम, एतादृशीम् णिग्गंथिं निर्ग्रथीं - श्रमणीम् गिण्हमाणे गृह्णन् उपदेशेन शरीरेण वा स्पृष्ट्वा निवारयन् अबलम्बमाणे वा अवलम्बमानो वा णिग्गंथे निर्ग्रन्थः - श्रमणः णाइक्कमइ नातिक्रामति- तीर्थकरस्याज्ञां नोल्लङ्घयतीति भावः ॥ सू० १५- १८ ॥ श्रमणीनां सामाचारीलक्षणं कल्पं दर्शयित्वा संप्रति कल्पस्य प्रतिबन्धकान् दर्शयितुमाह-'छ कप्पस्स' इत्यादि । सूत्रम्(- छ कप्पस्स पलिमंधू पन्नत्ता, तंजा - कोकुइए संजमस्स पलिमंधू १, मोहरिए सच्चवयणस्स पलिमंधू २, तिंतिणिए एसणागोयरस्स पलिमंधू ३, चक्खुलोलए २०

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210