Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 179
________________ १५० बृहत्कल्पसूत्रे 'विसोहेमाणी वा' विशोधयन्ती समुद्धरन्ती णाइक्कमइ नातिक्राम्यति तीर्थकराज्ञाम् , सा तीर्थकराज्ञाया उल्लङ्घनं न करोति, जिनाज्ञाविराधिका न भवतीत्यर्थः ॥ सू० ३ ॥ सूत्रम्-णिग्गंथस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च णिग्गंथे नो संचाएइ णीहरीत्तए वा विसोहित्तए वा तं णिग्गंथी णीहरमाणी वा विसोहेमाणी वा, णाइक्कमइ ॥ सू० ४॥ छाया-निर्ग्रन्थस्य चाक्षिणि प्राणो वा, बीज चा, रजो वा, पर्यापद्येत तच्च निर्ग्रन्थो नो शक्नुयात् निहतम् वा, विशोधितुं वा, तं निर्ग्रन्थी निर्हरन्ती वा विशोधयन्ती वा नातिक्रामति ॥ सू० ४॥ चूर्णी-णिग्गंथस्स य इति निर्ग्रन्थस्य श्रमणस्य अच्छिसि अक्षिणि नेत्रे पाणे वा प्राणो वा-क्षुद्रजीवो मशकादिर्वा बीएवा बीजं वा शालिगोधूमादिबीजं, 'रए वा' रजो वा-धूलिकणो वा पारियावज्जेज्जा पर्यापयेत परिपतेत् , नेत्रे यदि क्षुदजन्तुप्रभृतिकं वस्तु नेत्रकष्टकारकं पतितं भवेदित्यर्थः, तं च निगंथे नो संचाइए णीहरित्तए वा-विसोहित्तए वा तच्च निर्ग्रन्थोऽन्यः कोऽपि श्रमणः न शक्नुयात् निहत्तुं वा विशोधयितुं वा तद् नेत्रपतितं क्षुद्रजीवादिकम् निर्ग्रन्थोऽन्यः श्रमणः साधुः नेत्रपतितं क्षुदनीवादिकं साधुनेत्रात् निहत्तुं निष्कासयितुं विशोधयितुं वा न शक्नु. यात् समर्थो न भवेत् तदा तं णिग्गंथी णीहरमाणी वा विसोहेमाणी वा णाइक्कमइ तच्च श्रमणनेत्रपतितक्षुद्रजीवादिकं श्रमणस्याऽशक्तौ सत्यां निग्रन्थी श्रमणी निर्हरन्ती साधुनेत्रात् क्षुदजीवादिकं निःसारयन्ती विशोधयन्ती अपनयनं कुर्वन्ती नातिक्रामति तीर्थकराज्ञां नोल्लङ्घयति ॥ सू० ४ ॥ सूत्रम्-निग्गंथीए य अहे पायंसि खाणू वा कंटए वा हीरए वा सक्करए वा परियावज्जेज्जा, तं च णिग्गंथी णो संचाएइ णीहरित्तए वा विसोहित्तए वा तं च णिग्गंथे नीहरमाणे वा विसोहेमाणे वा णाइक्कमइ ॥ सू० ५ ॥ . छाया-निर्ग्रन्थ्याश्चाधः पादे स्थाणुर्वा कण्टको था हीरक वा शर्करं वा पर्यापोत तंच निर्ग्रन्थी नो शक्नुयात् निर्हर्नु वा विशोधयितुं वा तं च निर्ग्रन्थो निर्हरन् वा विशोधयन् वा नातिकामति ॥ सू० ५॥ . चूर्णी-'णिग्गंथीए य' इति निर्ग्रन्थ्याः अहे पायंसि अधः पादे चरणस्याधोभागे पादतले इत्यर्थः खाण वा स्थाणुर्वा पूर्वोक्तस्थाणुकण्टकहीरकशर्करादिकं परियावज्जेज्जा पर्यापद्यत संलगेत् स्थाणुप्रभृतिना पादो विद्ध इत्यर्थः तं च निग्गंथी नो संचाइए णीहरित्तए वा विसोहित्तए वा तच्च निम्रन्थी नो शक्नुयात् निर्ह वा, विशोधयितुं वा, तत्र तत् श्रमणीपदसंलानकण्टकादिकं श्रमणी स्वयं यस्याः पादे स्थाण्वादि लग्नं तद्वयतिरिका वा साध्वी नो शक्नुयात् न

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210