Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिमायावचूरो उ० ५ ० ४९-५१
परिहारकल्प स्थितस्य प्रायश्चित्तविधिः १४१
गर्व निर्मार्दवतादयो दोषा भवन्ति । पुनश्च यावत्कालं गात्रस्याभ्यङ्गादि करोति तावत्कालं सूत्रार्थपरिमन्थो भवेत्, मुनिना च सर्वसामयिकत्वात् क्षणमपि निरर्थकं न नेतव्यमिति भगवदाज्ञाभङ्गदोषोऽवश्यम्भावीति । आत्मविराधना - तैलादिनाऽभ्यङ्गिते गात्रे तद्गन्धेन समापतिताः पिपीलिकादिप्राणिनः क्षतं करोति, स्नैग्ध्येन पादं वा प्रस्खलतीत्यादिनाऽऽत्म विराधनासंभवः, तस्मात् परिवासितेनापरिवासितेन वा तैलाद्यभ्यङ्गनं निर्ग्रन्थनिर्ग्रन्थीनां न कल्पते इति भावः । किं सर्वथा न कल्पते ? तत्राह--' नन्नत्थ' इत्यादि, नान्यत्र - अन्यत्र न केभ्यः ? इत्याह-गाढागाढेभ्यः – गाढदुःखजनकेभ्यः रोगातङ्केभ्यः, गाढागाढरोगातङ्कान् विहायान्यत्र न कल्पते, तथाविधे कारणे कल्पते, कारणं यथा - अध्वगमनेनातीव श्रान्तत्वम्, वातरोगेण कटिबन्धनम्, कच्छुपामा दिपीडितत्वं च भवेत्, इत्यादिकारणे तैलाद्यभ्यङ्गनं यतनया कर्त्तव्यमिति भावः ॥ स० ४९ ॥
पूर्वसूत्रे गात्राणामभ्यङ्गनं म्रक्षणं च निषिद्धम्, सम्प्रति--उपलेपनम् उद्वर्त्तनं च निषेधयितुमाह - 'नो कप्पर' इत्यादि ।
सूत्रम् - - नो कप्पइ निग्गंथाण वा निग्गंथीण वा परिवासिएण कक्केण वा लोण वा पधूवणेण वा अन्नयरेण वा आलेवणजाएण गायाई उवलित्तए वा उब्वट्टित्तए वा, नन्नत्थ गाढागाढेहिं रोगायंकेहिं ।। सू० ५० ॥
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन कल्केन वा लोण वा प्रधूपनेन वा अन्यतरेण वा - आलेपनजातेन गात्राणि उपलेपयितुं बा उद्वर्त्तयितुं वा, नान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः ॥ सू० ५० ॥
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन पर्युषितेन प्रथमप्रहरानीतचतुर्थ प्रहर प्राप्तेन कल्केन वा उत्कालित सुगन्धिद्रव्यविशेषेण, लोध्रेण वा स्निग्धचूर्ण रूप सुगन्धिद्रव्यविशेषेण, प्रधूपनेन वा अगुरुचन्दनप्रभृति सुगन्धिधूपनद्रव्येण, एवम् अन्यतरेण वा एतादृशेन केनापि अनेकविध सुगन्धिद्रव्यमध्यादेकेन सुगन्धिद्रव्यरूपेण आलेपनजातेन आलेपनयोग्यद्रव्यविशेषेण गात्राणि - अङ्गानि मुखहस्तपादादीनि उपलेपयितु वा सामान्येन लेपितानि कर्त्तुं वा, तथा उद्वर्त्तयितुम् उपमर्दयितुं वा न कल्पते इति सम्बन्धः । किं सर्वथा न कल्पते ! इत्याह – 'नन्नत्थ' इत्यादि, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः, गाढागाढेभ्यः अत्यन्तमरणादिभयजनकेभ्यः रोगातङ्केभ्यः, रोगरूपातङ्केभ्यः - कुक्षिशूलहृदयशूलमस्तकशूलरक्तविकारादिजनित विषमग्रन्थिप्रभृतिरूपेभ्यः, मरणादिभयजनकरोगातङ्कान् विहाय
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210