Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिभाष्यावचूरी उ० ५ सू० ४७-४९
पर्युषिताहारादिनिषेधः १३९ चूर्णी-'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितम् संगृहीतं प्रथमप्रहरे आनीतं चतुर्थप्रहरप्राप्त भोजनजातम् अशनादिचतुर्विधं यावत्-न्यूनान्यूनम् , तत् कियदित्याह-'तयप्पमाणमेत्तं वा' इति, त्वक्प्रमाणमात्रमपि तिलतुषत्रिभागमात्रमपि, एतच्चाशनस्य घटते। भूतिप्रमाणमात्रमपि, भूतिः-भस्म भूतिशब्देन भस्मचप्पुटिका गृह्यते तेन भूतिचप्पुटिकामात्रमपि इत्यर्थो बोध्यः संयोजिताङ्गुष्ठतर्जनीभ्यां गृहीतं द्रव्यं भूतिप्रमाणमात्रं कथ्यते, तच्च सक्तुकादीनां शुष्कचूर्णद्रव्यादीनां च घटते । तोयबिन्दुप्रमाणमात्रमपि पानकद्रव्यस्य बिन्दुप्रमितमपि परिवासितं प्रथमप्रहरस्थापितस्य चतुर्थप्रहरः प्राप्तः, तादृशम् आहारम्-किमपि भोज्यपेयपदार्थजातम् आहर्तुम् - भोक्तुं न कल्पते इति । यद्वा परिवासितं रजन्यां स्थापितं पूर्वोक्तप्रमाणमात्रमपि आहारं भोक्तुं न कल्पते । रजन्यां स्थापितवस्तुमात्रस्य मुनीनां परिभोगो न कल्पते, तस्य सन्निधिसंचयदोषापत्तेः, सन्निधिसंचये साधुत्वमपि नश्यति, उक्तञ्च-दशवैकालिकसूत्रे षष्ठाध्ययने
"लोहस्सेसणुप्फासे, मन्ने अन्नयरामवि । जे सिया संनिहिकामे, गिही पव्वइए न से ॥ गा० १९॥" लोभस्य एष अनुस्पर्शः, मन्ये अन्यतरोऽपि ।
यः स्यात् संनिधिकामः गृही प्रव्रजितो न सः ॥ गा०१९ ॥ इतिच्छाया ॥ संक्षेपार्थः-'मन्ये' इति भगवढाक्यम् , मन्ये अहं निश्चिनोमि अन्यतरोऽपि बहूनां मध्ये एकः एषः लोभस्य अनुस्पर्शः प्रभावः, लोभस्य बहूनां प्रभावाणां मध्ये एष पूर्वोक्तः संनिधिरूप एकः प्रभावोऽस्ति, एवमहं मन्ये, अतः यः संनिधिकामः-संनिधिवाञ्छकः स्यात् सः गृही-गृहस्थ एव मन्तव्यः न तु सः प्रवजितः-साधुरिति । इत्येवं भगवद्वचनात् परिवासितमाहारजातं निर्ग्रन्थनिम्रन्थीनां भोक्तुं न कल्पते इति भावः । किं सर्वथा न कल्पते ? इत्यपवादमाह-'नन्नत्थ' इत्यादि, नान्यत्र-अन्यत्र न, केभ्यः ? इत्याह-गाढागाढेभ्यो रोगातकेभ्यः गाढागाढरोगातङ्कान् विहाय, अन्यत्र न कल्पते इत्यर्थः ॥ सू०४७॥
पूर्व परिवासिताहारनिषेधसूत्रं प्रोक्तम् , सम्प्रति परिवासितालेपननिषेधसूत्रं प्रतिपादयति'नो कप्पइ' इत्यादि ।
सूत्रम्-नो कप्पई निग्गंथाण वा निग्गंथीण वा परिवासिएणं आलेवणजाएणं आलिंपित्तए वा विलिंपित्तए वा, नन्नत्थ गाढागाढेहिं रोगायंकेहिं ।। सू०४८ ॥
छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन आलेपनजातेन आलेपयितु वा विलेपयितुं वा, नान्यत्र गाढागाढेभ्यः रोगातङ्केभ्यः ॥ सू० ४८ ॥
चूर्णी- 'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेनप्रथमप्रहरगृहीतचतुर्थप्रहरप्राप्तेन आलेपनजातेन केनापि लोध्रादिनिर्मितालेपनेन आलेपयितुं
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210