Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
१३८ प्रमार्जनिकारूपम् न कल्पते इति भावः ॥ स० ४४॥ निर्ग्रन्थविषये विधिसूत्रमाह-'कप्पइ' इति । कल्पते निर्ग्रन्थानां दारुदण्डकं काष्ठमयदण्डिकायुक्तं पादप्रोञ्छनकम् दण्डोपरिभागबद्धदशिकासमूहं पादप्रोञ्छनार्थं प्रमानिकारूपं धारयितुं परिभोक्तुं वा कल्पते ॥ सू०४५॥
पूर्व ब्रह्मचर्यव्रतरक्षणार्थ विशेषतः श्रमणीमधिकृत्य एकाकिनी विहारादिदारुदण्डकपादप्रोञ्छनधारणपर्यन्तवक्तव्यता प्रतिपादिता, सम्प्रति तस्यैव व्रतस्य रक्षणार्थ निर्ग्रन्थनिम्रन्थीद्वयमधिकृत्य मोकसत्रमाह-'नो कप्पइ' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा अन्नमन्नस्स मोयं आपिबित्तए वा आयमित्तए वा नन्नत्य गाढागाढेहि रोगायंकेहि ॥ सू०४६॥
छाया-नो कल्पते निर्ग्रन्थानां वा निर्गन्थीनां वा अन्योन्यस्य मोकम् आपातुं वा आचमितुं वा नान्यत्र गाढागाढेभ्यो रोगातडेभ्यः ॥ सू० ४६॥
चूर्णी--'नो कप्पई' इति । नो कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा श्रमणश्रमणीनां अन्योन्यस्य-परस्परस्य-साधोः-साव्याः साध्व्याश्च साधोः, इत्येवम् एकद्वितीययोः मोकम्-प्रस्रवणम् आपातुं आचमितुं वा न कल्पते, परस्परमोकग्रहणे वशीकरणादिदोषसंभवात् । किं सर्वथा न कल्पते ? इत्याह-'नन्नत्थ' इति नान्यत्र, अन्यत्र न, कुत्र न ? इत्याह-'गाढागादेहि इति । गाढागाढेभ्यः रोगातङ्केभ्योऽन्यत्र न, गाढागाढा इत्यत्यन्तगाढाः कष्टसाध्या रोगातङ्काःरोगाः-व्याधयः, ते च ते आतङ्काश्च कृच्छजीवितकारित्वात् रोगातङ्काः कष्टसाध्या व्याधयः सर्पमण्डूकादिदशनरूपाः, अथवा रोगाः-रक्तविकारपामादिरूपाः, आतङ्काः-सघोघातिनः सर्पादिविषयोनिहृदयशूलादयः, रोगाश्च आतङ्काश्चेति रोगातङ्काः, तेभ्योऽन्यत्र निर्ग्रन्थनिर्ग्रन्थीनां मोकं परस्परमापातुम् , आचमितुं वा न कल्पते, अनेनायातम्-गाढागाढरोगातङ्ककारणे कल्पते, तदेवम्-सदिविषं पामादिरक्तविकाररोगश्च नरमूत्रेण शाम्यति, तदुक्तं भावप्रकाशे
"नरमूत्रं गरं हन्ति, सेवितं तद् रसायनम् । रक्तपामाहरं तीक्ष्णं, सक्षारलवणं स्मृतम् ॥ गोऽजाऽविमहिषीणां तु, स्त्रीणां मूत्रं प्रशस्यते ।
खरोष्ट्रेभनराश्वानां, पुंसां मूत्रं हितं स्मृतम् ॥ सू० ४६ ॥" पूर्व मोकसूत्रं प्ररूपितम्, पानप्रसङ्गात् पर्युषिताहारविषयं सूत्रमाह—'नो कप्पइ' इति ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा परियासियं भोयणजायं जाव तयप्पमाणमेत्तं वा भूइप्पमाणमेत्तं वा तोयबिंदुप्पमाणमेत्तं वा आहारं आहरित्तए नन्नत्थ गाढागाढेहिं रोगायंकेहिं ॥ सू० ४७॥
छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितं भोजनजातं यावत् त्वचाप्रमाणमात्रमपि भूतिप्रमाणमात्रमपि तोयबिन्दुप्रमाणमात्रमपि आहारम् आहतम्, नान्यत्र गाढ़ागाढेभ्यः रोगातङ्केभ्यः ॥ सू०४७ ॥
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210