Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 165
________________ बृहत्करप सू स्थातुं निषत्तुं वा नोचितमिति ॥ सू० ३६ ॥ सम्प्रति निर्ग्रन्थविषये विधिसूत्रमाह - ' कप्प ' इति । कल्पते निर्ग्रन्थानां सावश्रये सावष्टम्भे आसने स्थातुं निषतुं वा तो लानत्वादिकारणान्निरालम्बमुपवेष्टुमशक्तानां निर्ग्रन्थानां सावष्टम्भमासनं कल्पते, निर्ग्रन्थीनां सर्वथा न कन्पते इति भावः ॥ सू० ३७ ॥ " पूर्व सावष्टम्भासनविषये निर्ग्रन्थीनां निषेधसूत्रं, निर्ग्रन्थानां च विधिसूत्रमुक्तम्, सम्प्रति सविषाणपीठफलकविषये तदेवाह - 'नो कप्पड़' 'कप्पड़' इत्यादि । सूत्रम् - नो कप्पर निम्गंथीणं सविसाणंसि पी ंसि वा फलगंसि वा चिट्ठि तर वा निसीइत्तए वा ।। सू० ३८ || कप्पइ निग्गंथाणं सविसाणंसि पीढंसि वा फलगंसि वा चित्तिए वा निसीइत्तए वा ॥ सू० ३९ ॥ छाया - मो कल्पते निर्ग्रन्थीनां सविषाणे पीठे वा फलके वा स्थातुं वा निषत्तुं वा ॥ स्रु० ॥ ३८ ॥ कल्पते निर्ग्रन्थानां सविषाणे पीठे वा फलके वा स्थातुं वा निषन्तु वा || सू० ॥ ३९ ॥ चूर्णी - 'नो कप्पड़े' इति । नो कल्पते निर्ग्रन्थीनां सविषाणे - विषाणं शृङ्गम्, विषामिव विषाणं शृङ्गाकार उपर्युत्थितः काष्ठविशेषः, तेन सहितं सविषाणम् - तस्मिन् सविषाणे सशृङ्गे पीठे काष्ठनिर्मितासनविशेषे, फलके वा शयनपट्टके स्थातुम् ऊर्ध्वस्थानेन निषत्तुम् - उपवेष्टुं न कल्पते इति सम्बन्धः । यस्य पीठस्य फलकस्य वा उपरि शोभार्थं शृङ्गाकारम् ऊर्ध्वलम्बकाष्ठं निर्मितं भवेत् तादृशे पीठे फलके वा स्थाननिषीदनकरणे ऊर्ध्व काष्ठरूपतदाकारावलोकनेन उदीर्णमोहत्वेन भुक्तभोगिनीनां निर्ग्रन्थीनां पादकर्म स्मृतिकरणादिदोषसंभवात्, अभुक्तभोगिनीनां च कौतुक - संभवात् निर्ग्रन्थीनां सविषाणपीठफलकादौ स्थानदि कर्त्तु नोचितमिति भावः ॥ सू० ३८ ॥ विधिमाश्रित्य निर्ग्रन्थसूत्रमाह - ' कप्पड़' इति । पूर्वोक्ते सविषाणे पीठे वा फळके वा स्थातुं निषत्तुं वा निर्ग्रन्थानां कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः ॥ सू० ३९ ॥ पूर्वं सविषाणपीठफलकविषये निर्ग्रन्थीनां निषेधसूत्रम्, निर्ग्रन्थानां च विधिसूत्रं प्रतिपादितम् सम्प्रति सवृन्तकाला बुविषये तदेव सूत्रद्वयमाह - 'नो कप्पड़' 'कप्पर' इत्यादि । 9 सूत्रम् - नो कप्पइ निग्गंथीणं सवेंटगं लाउयं धारितए वा परिहरित्तए वा ॥ सू० ४० ॥ कप्पइ निग्गंथाणं सवेंटगं लाउयं धारितए वा परिहरितए वा ॥ सू० ४१ ॥ छाया -नो कल्पते निर्ग्रन्थीनां सवृन्तकम् अलावु धारयितुं वा परिहर्तु वा ॥ सू० ४० ॥ कल्पते निर्ग्रन्थानां सवृन्तकम् अलाबु धारयितुं वा परिहर्त वा ॥ सू०४१ ॥

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210