Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
वृहत्कल्पसूत्रे छाया-नों कल्पते निम्रन्थ्या एकाकिन्या प्रामानुग्राम द्रोतुं वा वर्षावासं वा वस्तुम् ॥ सू. १८॥
चूर्णी- एवमेव एकाकिन्या निम्रन्थ्या प्रामानुग्रामम् एकस्माद् ग्रामाद् प्रामान्तरं द्रोतुम् विहर्तुम् , तथा वर्षावासं चातुर्मास्यनिमित्तं वस्तुं न कल्पते ॥ सू० १८॥
पूर्व निर्ग्रन्ध्या एकाकिनीत्वं निषिद्धम् , सम्प्रति श्रमणानामचेलकत्वस्य भगवता प्रतिपादितत्वेन काचित् श्रमणी चापि अचेलकत्वं कर्तुमिच्छेदतस्तासामचेलकत्वं प्रतिषेधयन्नाह'नो कप्पई' इत्यादि ।
सूत्रम्-नों कप्पइ निग्गंथीए अचेलियाए होत्तए ॥ सू० १९ ॥ छायानो कल्पते निर्ग्रन्थ्या अचेलिकया भवितुम् ॥ सू० १९॥
ची-नो कप्पई' इति । नो कल्पते निर्ग्रन्थ्याः श्रमण्या अचेलिकया-चेलः वस्त्रं, न चेलो वस्त्रं यस्याः सा अचेला, अचेला एव अचेलिका वस्त्रवर्जिता, तया वस्त्ररहितया भवितुम्-अवस्थातुं न कल्पते इति पूर्वेण सम्बन्धः, साध्व्या वस्त्ररहितया न भवितव्यम्-साध्वी वस्त्ररहिता न भवेदिति भावः । अनेन साध्वीनां जिनकल्पो निषिद्ध इत्यवगन्तव्यम् , तासां तादृशसंहननाभावात् । तरुणस्तेनकादिकृतोपसर्गजन्ये भये उपस्थिते तन्निवारणसामर्थ्याऽभावात्साध्वी वस्त्रवर्जिता भवितुं न शक्नोतीति तस्या अचेलकत्वं भगवता निषिद्धम् । वस्त्ररहितां साध्वीं दृष्ट्वा स्त्रीशरीरस्य पुरुषमोहकस्वभावात् तरुणादिश्चतुर्थसेवनादिकं कत्तु साहसं कुर्यात्, एवं यदा कुलटाऽपि तावद् व्यभिचारिणी अपि वस्त्ररहिता भवितुं नेच्छति तदा किमुत वक्तव्यं कुलीनानां साध्वीनां विषये, यत् न ताः कदापि वस्त्ररहिता भवितुं वाञ्छन्तीति तात्पर्यम् । पुनश्च अचेलकता प्रतिपन्नानां श्रमणीनां लोकापवादनिन्दितानां तीर्थोच्छेदो भवति, वृत्तिश्च तासां दुर्लभा भवति । एवं विवस्त्रां श्रमणीमवलोक्य लोको वदति-"स्त्रीणां लज्जा विभूषणम्" इति वचनात् कुत्र गता आसां लज्जा ? इति प्रव्रज्यां ग्रहीतुम् अभिमुखीभूतानामपि प्रव्रज्याग्रहणतः परावर्तनं स्यात् । अन्यो वा कश्चित् प्रव्रज्याग्रहणतस्ता निवारयेत् । लोकास्तत्कुटुम्बिजनान् एवं कथयन्ति यत्युष्मदीया दुहितरः स्नुषा वा याः पूर्व चन्द्रसूर्यकिरणैरस्पृष्टगात्रा आसन् ताः सम्प्रति प्रत्रजितावस्थायां सर्वजनदृष्टिस्पृष्टगात्राः सर्वलोकपुरतो विवस्त्रा हिण्डन्ते, कीदृशी चैषा प्रव्रज्या ?, लोकैरेवमुक्ते तत्कुटुम्बिनो भूयस्ताः स्वगृहमानयन्ति । अनेन प्रवचनोड्डाहोऽवश्यम्भवी । इत्याधनेकदोषसंभवात् साध्वीभिरचेलाभिने भवितव्यमिति भावः ॥ सू० १९॥
पूर्व निर्ग्रन्थीनामचेलकत्वं निषिद्धम्, सम्प्रति तासां पात्ररहितत्वं प्रतिषेधयितुमाह'नो कप्पई' इत्यादि।
सूत्रम्-नो कप्पइ निग्गंथीए अपाइयाए होत्तए । सू० २०.॥
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210