Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पूर्वं प्राणातिपातादिरक्षण वक्तव्यता प्रतिपादिता, सम्प्रति ब्रह्मचर्यव्रतरक्षणार्थमिन्द्रियविषये श्रोतोविषये च क्रमशः सूत्रद्वयं प्रतिपादयन् प्रथममिन्द्रियविषयं निर्ग्रन्थीसूत्रमाह'निग्गंथी इत्यादि ।
सूत्रम् - निग्गंथीए राओ वा वियाले वा उच्चारं वा पासवणं वा विर्गिचमाणीए वा विसोमाणीए वा अनयरे पसुजाइए वा पक्खिजाइए वा अन्नयरं इंदियजायं परा - मुसेज्जा, तं च निग्गंथी साइज्जेज्जा, हत्थकम्मपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्धायं ॥ सू० १३॥
बृहत्कल्पसूत्रे
छाया - निर्ग्रन्ध्याः रात्रौ वा विकाले वा उच्चारं वा प्रस्रवणं वा विविञ्चत्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरद् इन्द्रियजातं परामृशेत् तं च निर्ग्रन्थी स्वादयेत् हस्तकर्मप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकम् अनुद्घातिकम् ॥सू०१३॥
"
चूर्णी - 'निग्गंथीए' इति । निर्ग्रन्थ्याः - श्रमण्याः रात्रौ वा रजनीसमये, विकाले वा पूर्वापरसन्ध्यासमये उच्चारं वा संज्ञाम्, प्रस्रवणं वा कायिकीलक्षणम्, विविञ्चत्या वा परिष्ठापयन्त्याः, विशोधयन्त्या वा शुद्धिं कुर्वन्त्याः तत्समये अन्यतरः कश्चिद् एकतरः पशुजातीयो वा वानरादिः, पक्षिजातीयो वा मयूरादिः यदि अन्यतरत् किमपि एकतरत् इन्द्रियजातम् - स्तनकपोलमुखनयनपाणिपादादिकम् अङ्गविशेषं परामृशेत् - स्पृशेत्, अथ तं च वानरादिस्पर्श निर्ग्रन्थी स्वादयेत् 'सुखदोऽयं स्पर्शः' इत्येवमनुमोदयेत् तदा हस्तकर्म प्रतिसेवनप्राप्ता अकृतहस्त कर्माि हस्तकर्मप्रयुक्तदोषापन्ना सती आपद्यते चातुर्मासिकम् अनुद्घातिकं - चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोति ॥ सू० १३ ॥
पूर्वमिन्द्रियविषयकं प्रथमं सूत्रं प्रतिपादितम् सम्प्रति श्रोतोविषयं द्वितीयं निर्ग्रन्थीसूत्रमाह - 'निग्गंथीए' इत्यादि ।
सूत्रम् - निग्गंथीए राओ वा वियाले वा उच्चारं वा पासवणं वा विगिंचमाणी वा विसोमाणीए वा अन्नयरे पसुजाइए वा पक्खिजाइए वा अन्नयरंसि सोयंसि ओगाहिज्जा, तं च निम्गंथी साइज्जेज्जा, मेहुणपडि सेवणपत्ता आवज्जइ चाउम्मासियं अणुग्धाइयं ॥ सू० १४ ॥
छाया
निर्ग्रन्ध्या रात्रौ वा विकाले वा उच्चारं वा प्रस्रवणं वा विविञ्चत्या वा विशोधयन्त्या वा अन्यतरः पशुजातीयो वा पक्षिजातीयो वा अन्यतरस्मिन् श्रोतसि अवगाहेत, तच्च निर्ग्रन्थी स्वादयेत् मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकम् अनुयातिकम् ॥ सू० १४ ॥
चूर्णी -- ' निम्गंथीए ' इति । निर्ग्रन्ध्या रात्रौ विकाले वा उच्चारप्रस्रवणं परिष्ठापयन्त्या वा शुद्धिं कुर्वन्त्या वा तत्समये अन्यतरः कश्चिदेकः पशुजातीयो वा प्राणी वानरादिः
ܕ܂
"