Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 156
________________ चूर्णिमायावचूरी उ०५ सू० प्राणादिपतिताहारकरणाकरणविधिः १२७ दिजीवं पूर्वमेव प्रथममेव लात्वा हस्तादिना गृहीत्वा प्रतिलेख्य प्रतिलेख्य सर्वथैव अपनीयापनीय पात्रमध्याद् निस्सार्य २, ततः तदनन्तरं संयत एव यतनया भुञ्जीत वा पिबेद् वा । यदि पुनः तच्च प्राणादि - द्वीन्द्रियादिजीवं 'नो संचाएइ' इति नो शक्नोति विवेक्तुं निस्सारयितुम् वा पृथक्कर्तुम्, विशोधयितुं वा विशेषतो दूरीकर्त्तुं यदि न शक्नोति तदा तत् द्वीन्द्रियादियुक्तं भक्तपानं नो आत्मना स्वयं भुञ्जीत नो वा अन्येभ्यः श्रमणादिभ्यो दद्यात् तर्हि किं कुर्यात् ? इत्याह-- तद् भक्तपानम् एकान्ते विजने बहुप्रासुके अत्यन्तप्राशुके अवश्यायोत्तङ्गादिरहिते स्थाने प्रत्युपेक्ष्य चक्षुषा सम्यग् निरीक्ष्य, प्रमृज्य रजोहरणेन प्रमार्जनं कृत्वा परिष्ठापयितव्यं स्यात् तस्य प्राणादिमिश्रितभक्तपानस्य परिष्ठापनं कर्त्तव्यं न तु स्वयं भोक्तव्यं नाप्यन्येभ्यो वा दातव्यमिति भावः ।। सू० ११ ॥ " " पूर्वमाहारसूत्रे प्राणपदेन त्रसानां, बीजपदेन वनस्पतिकायानां, रजोग्रहणेन पृथिव्यग्निकायानां, वायोः सर्वत्रान्तर्गतत्वेन वायुकायानां च ग्रहणं कृतमिति कायपञ्चकमुक्तम्, सम्प्रति अत्र सूत्रे षष्ठमकायमधिकृत्य भोजनविधि प्रतिपादयति- 'निग्गंथस्स य' इत्यादि । सूत्रम् - निग्गंथस्स य गाहावइकुलं पिंड वायपडियाए अणुप्प विट्ठस्स तो डिग्गहंसि दगे वा दगरए वा दगफुसिए वा परियावज्जेज्जा, से य उसिने भोजाए भोव्वे सिया से य सीए भोयणजाए तं नो अप्पणा भुंजिज्जा नो अन्नेसिं दाव, एगंते बहुफासुए थंडिले परिवेयव्वे सिया || सू० १२ ॥ छाया - निर्ग्रन्थस्य च गाथापतिकुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे दकं वा दकरजो वा दकपृषद् वा पर्यापतेत् तच्च उष्ण भोजनजातं भोक्तव्यं स्यात्, अथ च शीतं भोजनजातं तत् नो आत्मना भुञ्जीत, नो अन्येभ्यो दद्यात् कान्ते बहुप्रासु स्थण्डिले परिष्ठापयितव्यं स्यात् ॥ सू० १२ ॥ चूर्णी - 'निग्गंथस्य' इति । निर्ग्रन्थस्य च गाथापति कुलं पिण्डपातप्रत्ययेन अनुप्रविष्टस्य अन्तः प्रतिग्रहे पात्राभ्यन्तरे दकं वा अप्कायसमूहरूपम्, दकरजो वा उदकबिन्दुर्वा - दकपृषत्-उदकशीकरो जलकणो वा पर्यापतेत्, तच्च पात्रस्थितं भोजनजातं यदि उष्णं भवेत् तदा तद् भोजनजातं श्रमणस्य भोक्तव्यं भोजनयोग्यं स्यात्, श्रमणेन तद् भोक्तव्यम्, उष्णपतितदकादेः शस्त्रपरिणतत्वेनाचित्तत्वसद्भावात् । तदपि भोजनजातं यदि शीतं भवेत् तदा तद् भोजनजातं पतितदकादेः शस्त्राऽपरिणतत्वेन सचित्तत्वसद्भावात् नो आत्मना स्वयं भुञ्जीत नापि च तद् अन्येभ्यो दद्यात् अपितु तद् भोजनजातम् एकान्ते बहुप्रासु स्थण्डिले परिष्ठापयितव्यं स्यादिति । अत्र दक - दकरजःप्रभृतीनां परिमाणकृतो भेदो बोध्यः, तथाहि - दकपदेन प्रभूता कायरूपमुदकं गृह्यते, दकरजःपदेन उदकबिन्दुरुच्यते, दकपृषत्पदेन पुनः पानीये - ऽन्यत्र प्रक्षिप्यमाणे वायुप्रेरितास्तत्रागत्य प्रपतन्तो जलकणाः प्रतिगृह्यन्ते इति विवेकः ॥ सू०१२ ॥

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210