Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text ________________
चूर्णिभाष्याऽवचूरो उ० ४ सू० ३-९
प्रव्राजनाद्ययोग्यशिष्यस्वरूपम् ८९ छाया-त्रयः अनवस्थाप्याः प्राप्ताः, तद्यथा-साधर्मिकाणां स्तैन्यं कुर्वाणः, अन्यधार्मिकाणां स्तैन्यं कुवार्णः, हस्तातालं ददत् ॥ सू० ३॥
चूर्णी-'तो' इति । त्रयः अग्रे वक्ष्यमाणस्वरूपाः तावत् अनवस्थाप्याः अपराधविशेषसमाचरणेन तत्क्षणादेव पुनव्रतेषु अवस्थापयितुम् अयोग्याः प्रज्ञप्ताः, कथिताः तीर्थकरगणधरादिभिराख्याताः, के ते ? इत्याह-'तंजहा' इत्यादि, तद्यथा ते यथा-साधर्मिकाणां समानो धर्मो येषां ते सधर्माणः, त एव साधर्मिकाः समानो धर्मो वाऽस्ति येषामिति साधर्मिकाः श्रमणाः श्रमण्यो वा तेषां 'तेणं' स्तैन्यं स्तेनस्य भावः कर्म वा स्तैन्यं चौर्यम्-तत्सत्कस्य उत्कृष्टोपधेः शिष्यादेर्वा अपहरणं 'करेमाणे' कुर्वाणः स्वयं कुर्वन् उपलक्षणात् अन्यद्वारा कारयन् , कुर्वन्तमन्यं वाऽनुमोदमानः साधुः अनवस्थाप्यो भवतीति भावः १ । 'अन्नधम्मियाणं' अन्यधार्मिकाणाम् अन्यो जिनोक्तातिरिक्तो धर्मो येषां ते अन्यधर्माणः, यद्वा अन्यश्चासौ धर्मश्च अन्यधर्मः, सोऽस्ति येषामिति अन्यधर्माणः, मत्वर्थे इकण्प्रत्यये अन्यधार्मिकाः-दण्डिशाक्यादयो गृहस्था वा तेषां सत्कस्य तदधीनस्य उपध्यादेः स्तैन्यं कुर्वाणः साधुरनवस्थाप्यो भवति २ । तृतीयः 'हत्थादाणं दलमाणे' हस्तातालं ददत् , हस्तातालम् हस्तेन हस्तस्य अन्यवस्तुनो वा आताडनं हस्तातालः तं ददत्-कुर्वन् उपलक्षणात् यष्टिमुष्टिलकुटादिभिरात्मानं परं प्रहरन् किञ्चिद्वस्तुजातं वा ताडयन् साधुरनवस्थाप्यो भवति, स अनवस्थाप्यप्रायश्चित्तभागी भवति, तत्प्रायश्चित्तस्यानवस्थाप्याभिधानात् ॥ सू० ३ ॥ ___पूर्वमनवस्थाप्यः प्रोक्तः, स च सद्योऽनाचरिततपोविशेषो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यतेऽतोऽसौ अनवस्थाप्यः प्रोच्यते, अयं पूर्वसूत्रे वर्णितः । तत्प्रसङ्गात् पण्डकादिविविधेऽपि द्रव्यभावलिङ्गे स्थापयितुं न योग्यो भवतीत्यत्र पण्डकादिः प्रतिपाद्यते-'तओ नो कप्पंति' इत्यादि ।
सूत्रम् -तओ नो कप्पति पव्वावित्तए तंजहा-पंडए १, वाइए २, कीबे ३, ॥सू०४॥ एवं मुंडावित्तए ॥ सू० ५॥ सिक्खावित्तए ॥सू० ६॥ उवट्ठावित्तए ॥ सूत्र ७॥ संभुंजित्तए ॥ सू० ८॥ संवासित्तए ॥ सू० ९॥
छाया-त्रयो नो कल्पन्ते प्रव्राजयितुम् , तद्यथा-पण्डकः १ वातिकः २, क्लीबः३ ॥सू० ४॥ एवं मुण्डापयितुम् ॥सू० ५॥शिक्षापयितुम् ॥ सू० ६॥ उपस्थापयितुम् ॥ सू०७॥ संभोक्तुम् ।।सू० ८॥ संवासयितुम् ॥ सू. ९॥
चूर्णी-'तो' इति । त्रयो वक्ष्यमाणाः पुरुषास्तावत् नो कल्पन्ते, किमित्याह-'पव्वावित्तए' प्रव्राजयितुं प्रव्रज्यां ग्राहयितुं दातुं न योग्या इत्यर्थः, के ते ? इत्याह-'तंजहा' तद्यथा-ते यथा-पण्डकः जन्मनपुंसकः १, वातिकः वातूजः वातरोगी–वेदोदयसहनाऽक्षमः २, क्लीबः असमर्थः कातर इत्यर्थः, क्लीबस्तावत् दृष्टि-शब्दा-ऽऽदिग्ध-निमन्त्रणक्लीबभेदाच्चतुर्विधः,
१२
Loading... Page Navigation 1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210