Book Title: Agam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 151
________________ १२२ बृहत्कल्पसूत्रे पूर्व मैथुन प्रतिसेवनप्राप्तस्य प्रायश्चित्तं प्रोक्तम्, तत्प्रायश्चित्ते न्यूनाधिकाऽऽरोपणायां दीयमानायां निर्ग्रन्थोऽधिकरणं कृत्वाऽन्यं गणं प्रविशेत्तदा तैरन्यगणस्थविरैः किं कर्त्तव्यमिति तद्विधिमाह - ' भिक्खू य' इत्यादि । सूत्रम् - भिक्खू य अहिगरणं कट्टु तं अहिगरणं अविओसवित्ता इच्छिज्जा अन्नं गणं उबसंपज्जित्ता णं विहरिए, कप्पर तस्स पंचराईदियं छेयं कटु परिनिव्वबिय परिनिव्वविय दोच्चपि तमेव गणं पडिणिज्जाएयव्वे सिया जहा वा तस्स गणस्स पत्तियं सिया || सू० ५ ॥ छाया - भिक्षुश्च अधिकरणं कृत्वा तदधिकरणम् अव्यवशमय्य इच्छेद् अन्यं गणम् उपसंपद्य विहर्तुम्, कल्पते तस्य पञ्चरात्रिन्दिवं छेदं कृत्वा परिनिर्वाण्य परिनिर्वापय द्वितीयमपि तमेव गणं पडिनिर्यातव्यः स्यात् यथा वा तस्य गणस्य प्रीतिकं ( प्रत्ययिकं ) स्यात् ॥ सू० ५॥ चूर्णी - ' भिक्खू य' इति । भिक्षुश्च श्रमणः अधिकरणम् - प्रायश्चित्तदाने न्यूनाधिकतायां कलहं कृत्वा तद् अधिकरणम् अव्यवशमय्य क्षमापनादिना शान्तं चाकृत्वा इच्छेत् अन्यं गणं गणान्तरम् उपसंपद्य-स्वीकृत्य विहर्तुम् वाञ्छेत् अन्यं गणं प्रविशेदिति भावः, एवं स्थितौ कल्पते अन्यगणस्थविराणां तस्य गच्छान्तरादागतस्य भिक्षोः पञ्चरात्रिन्दिवम् - पञ्चाहोरात्रकं छेदं कृत्वा - छेदनामकम् प्रायश्चित्तं दत्त्वा परिनिर्वाप्य परिनिर्वाप्य क्रोधादिकषायानलसंतप्तं तं मृदुमधुरोपदेशवचनसलिलसेचनेन तत्कषायानलं भूयो भूयो विध्यापयित्वा तं सर्वथा शीतलं संपाद्य द्वितीयमंपि द्वितीयवारमपि पुनरपि तमेव गणं यस्माद् गणाद् आगतस्तमेव तदीयगणं प्रति स श्रमणः परिनिर्यातव्यः प्रापयितव्यः नेतव्यः स्यात् । किमर्थमित्याह-यथा वा - येन कारणेन तस्य यस्माद् गच्छद् निर्गतस्तस्य तदीयगच्छस्य 'पत्तियं' प्रीतिकं प्रसन्नता, प्रत्ययिकं वा प्रत्ययो विश्वासः तदेव प्रत्ययिकं वैश्वासिकं वस्तु स्यात् तथा विधेयमिति भावः ॥ सू० ५ ॥ पूर्वसूत्रे अधिकरणस्य प्ररूपितत्वेन तदधिकरणं कृत्वाऽनुपशमं प्राप्तः श्रमणो गच्छान्तरं गच्छन् कथञ्चिदुपशमितः पुनस्तमेव गच्छं प्रत्यागच्छन् मार्गे संस्तरणेऽसंस्तरणे वा कदाचिद् आहारं गृह्णीयादतो रात्रिभोजननिषेधकं सूत्रचतुष्टयं व्याख्यातुं तावत् प्रथमं सूत्रं व्याचष्टे - ' भिक्खू य' इत्यादि । सूत्रम् - भिक्खू य उग्गयवित्तिए अणत्थमियसंकप्पे संथडिए णिव्वितिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे अह पच्छा जाणिज्जा - अणुग्गए सूरिए, अत्थमिए वा जं च आसयंसि जं च पाणिसि जं च पड़िग्गहे तं विचमाणे वा विसोहेमाणे वा नो अइक्कमर, तं अप्पणा

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210